अंशुमत्काश्यपागमः/मृत्संस्कारविधिपटलः ८६
← पटलः ८५ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः ८७ → |
मृत्संस्कारमहं वक्ष्ये संक्षेपाच्छृणु सुव्रत ! ।
जांगलं चानुरूपं च समंशं मृत्त्रिधा भवेत् ॥ १ ॥
अशक्त्या खननेत्यन्तं सुदृढं जांगजं भवेत् ।
तनुबालुकसंयुक्तं क्लेशात्खननमक्षमम् ॥ २ ॥
गर्ते मनोरमांगस्तु दृष्टं यत्सानुरूपकम् ।
तयोर्मिश्रमिवाकारं मिश्रभूस्तमुदाहृतम् ॥ ३ ॥
तेष्वशोष्यमलोपेते शुद्धभूमौ मनोरमे ।
नदीदीर्घतटाके वा श्वेता सृक् पीतकृष्ण वा ॥ ४ ॥
पंकं संग्राह्य पात्रेषु स्रावयेन्नव वाससा ।
पात्रे संशोषयेत्पंकं यावदालद्रवान्वितम् ॥ ५ ॥
तावद्रक्ष्य चतुःक्षीरवृक्षमोद्भववद्गलैः ।
खादिनार्जुनतोयैश्च पात्रे पाकं तु मर्दयेत् ॥ ६ ॥
पिण्डक्षमं तु यावत् तावच्छोष्य ततो विदा ।
त्रिफलोषिताम्भसा चैव शोषयेच्च पुनः पुनः ॥ ७ ॥
इष्टद्रवसमायुक्तं पिण्डं कृत्वा तु तं मृदा ।
पिण्डे हस्ते ततो रेखा दृशेत्पिण्डं ततः कुरु ॥ ८ ॥
यवताराष्टके नैव कल्प्यं मानांगुलेन तु ।
रुद्रांगुलपरीणाहं प्रशस्तमृदुदाहृतम् ॥ ९ ॥
सिकतं च शिखा चूर्णि * * * * * * * * ।
सादृशं चोत्कृतैकांशं योजयेत्तु मृदा सह ॥ १० ॥
त्रिफलाम्भसोभिर्दिशाभ्योष्ट सप्तमेव गोधुमापि च ।
मृदेषांशं समायोज्य नालिकेरफलोदकैः ॥ ११ ॥
पात्रे तु मर्दयेत्सम्यक् दशाहाति क्रमे ततः ।
श्रीवेष्टं गुग्गुलं चैव कुन्दुरुष्कं तथैव च ॥ १२ ॥
तथा सर्जरसं चूर्णं मृत्कलांशे शिवांशकम् ।
पात्रे मृत्तिं समायोज्य दधिचामर्दयेत्सुधीः ॥ १३ ॥
शुण्ठी च पिप्पली चैव मरीचि रजनी तथा ।
समचूर्णं तु कर्तव्यं मृद्दशांशेन संयुतम् ॥ १४ ॥
मधुक्षीरघृतेनैव मृदं पात्रे तु मर्दयेत् ।
कपित्थ बिल्वनिर्यास चूर्णौ द्वौ समतां कुरु ॥ १५ ॥
मृदः पंचदशांशेन चूर्णतैलसमायुतम् ।
मर्दयेत्तु क्रमात्सम्यक् कुष्ठं च हरितालकम् ॥ १६ ॥
चन्दनागरुकर्पूर रोचनादि च तत्समम् ।
संग्राह्य चूर्णं कर्तव्यं मृद्दशांससमन्वितम् ॥ १७ ॥
अतसी स्नेहसंयुक्तं मर्दयेद्देशिकोत्तमः ।
स्वर्णं रजतचूर्णं च वल्मीक कुलिरावटे ॥ १८ ॥
दीर्घिके नदि सस्यादि सागरे च हलस्थले ।
गजदन्ते वृषशृंगे मृदं चैव विशेषतः ॥ १९ ॥
यथा लाभं तु संग्राह्य नानागन्धसमन्वितम् ।
कपित्थनिर्यासतोयैः मधु वा मर्दयेद्बुधः ॥ २० ॥
पंचरात्रिमतिक्रम्य नालिकेरफले ततः ।
त्वक्सारं तु परिग्राह्य एकं सार्धद्वयांगुलम् ॥ २१ ॥
सारद्वयंगुलं वाथ मानेन च्छेदयेद्बुधः ।
मृच्चतुर्थ्या समायुक्तं मध्यलेपनमारभेत् ॥ २२ ॥
तदूर्ध्वे तु मृदं लिप्य ततो वैरज्जुवेष्टनम् ।
तद्रज्जु व्यन्तरं विप्र एकद्वित्र्यंगुलं तु वा ॥ २३ ॥
ततोऽपि मृत्समालिप्य यावदा शोषणं द्विज ! ।
तावन्निरीक्ष्य कर्तव्यं मृल्लेपं तु शनैः शनैः ॥ २४ ॥
शूलबाह्यगत व्यासचतुर्भागविभाजिते ।
एकांशावधिकं लिप्य अनुरूपमुदाहृतम् ॥ २५ ॥
द्व्यंशावसानमिश्रं स्याज्जांगलं त्वनलं विधि ।
तत्तद्देशमृदेनैव तत्र वेद्यांशमालिपेत् ॥ २६ ॥
शेषं कल्के समापूर्य वेदांशेशसवत्कलम् ।
शेषं कार्पास तैलेन युक्तं कल्कं तु लेपयेत् ॥ २७ ॥
मृत्संस्कारमिदं ख्यातं कल्कसंस्कारमुच्यते ।
इत्यंशुमान्काश्यपे मृत्संस्कारविधिपटलः (षष्ट्यशीतितमः) ॥ ८६ ॥