अंशुमत्काश्यपागमः/कल्कसंस्कारलक्षणपटलः ८७
← पटलः ८६ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः ८८ → |
अथ कल्कविधानं तु वक्ष्ये संक्षेपतः क्रमात् ।
नद्यां वापि तटाके वा दीर्घिकायामथापि वा ॥ १ ॥
सस्य क्षेत्रे तथा विप्र त्रिरुषारजले शुभे ।
सुदृशाग्राणि तुल्यागा स्थूल वालुकसाश्रिताः ॥ २ ॥
संग्राह्य शर्करां ह्येषां पेष्य प्रक्षालनं कुरु ।
शर्करां शोषणं कृत्वा सूक्ष्म चूर्णं तु तत्कुरु ॥ ३ ॥
त्रिफलोदकेन संमृज्य पिण्डं कृत्वा तु शोषयेत् ।
कपित्थनिर्यासस्यैव जलं त्रिविधमुच्यते ॥ ४ ॥
पंचांशं चैव निर्यासात् सार्धं वा पंच षड्गुणम् ।
सृतस्वच्छजलं चैव सैकं चेति क्रमोदिताः ॥ ५ ॥
स्वच्छसेकजलैः पिण्डं पेषयेन्नवनीतवत् ।
पश्चात्कार्पासतूलैश्च मिश्रं कृत्वा सुषेषयेत् ॥ ६ ॥
कल्कभिन्नं तु यत्तत्तु कदली दण्डतन्तुवत् ।
एतत्कल्कं समालिप्य प्रथमं कल्कमेव हि ॥ ७ ॥
निर्यासात् त्रिगुणं सार्धत्रिगुणं वा चतुर्गुणम् ।
मरीचित्रिफलं ह्येवं त्रिविधं परिपठ्यते ॥ ८ ॥
तेष्वं चौतु जलाभ्यां तु मर्दयेत्तु पुनः पुनः ।
क्रमेण लेपयेत्कल्कं द्वियवं त्रियवं घनम् ॥ ९ ॥
शनैः शनैः क्रमाल्लिप्य भिन्नच्छिद्रं विवर्जितम् ।
द्विमासं सार्धमासं वा मासं वा शोषयेत्ततः ॥ ११ ॥
कूर्चं न्यस्त्वा ततो विप्र षेषन्या पेषयेत्क्रमात् ।
ततः स्वच्छजलैः कल्कं प्रमाणान्तन्तु पूरयेत् ॥ ११ ॥
बहुकृत्वा प्रमाणं तु शोध्यमानं समानयेत् ।
अंगोपांगं च प्रत्यंगान् कल्पयेल्लक्षणान्वितम् ॥ १२ ॥
हस्तपादोदरादीनि अंगमित्यभिधीयते ।
उपांगं भूषणं ख्यातं प्रत्यंगं चिह्नवाहनम् ॥ १३ ॥
कपित्थस्यैव निर्यासात्तत्सार्धत्रिगुणांभसा ।
पाटाश्चादन्तु कर्तव्यं कल्कमालेपयेत्ततः ॥ १४ ॥
तत्कल्कं तु यवाष्टांशं दशाहं दपरस्ततः ।
निर्यासतोयं कूर्चेन सेचषेष्या तु षेषयेत् ॥ १५ ॥
मण्डनानि तदूर्ध्वस्तं मण्डयेल्लक्षणान्वितम् ।
पश्चाद्वै चिक्कणं लिप्य श्वेतवर्णं ततो लिपेत् ॥ १६ ॥
इत्येवं कल्कसंस्कारं लक्षणं सकलस्य तु ।
इत्यंशुमान्काश्यपे कल्कसंस्कारलक्षणपटलः (सप्ताशीतितमः) ॥ ८७ ॥