अंशुमत्काश्यपागमः/गजहारिमूर्तिलक्षणपटलः ७३

विकिस्रोतः तः
← पटलः ७२ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ७४ →


अथ वक्ष्ये विशेषेण गजारेर्मूर्तिलक्षणम् ।
ललाटमध्यनासाग्रात् वा वेतुस्तनमध्यमात् ॥ १ ॥

वामस्फिक् पिण्डमध्यात्तु पूर्वसूत्रं प्रसारयेत् ।
तत्सूत्राद्दक्षिणे वामपादपार्ष्ण्यन्तरं द्विज ! ॥ २ ॥

साष्टत्रिंशतिमात्रं वा षट्त्रिंशत्यंगुलं तु वा ।
तत्सूत्रादमतः सव्यपादांगुष्ठान्तरं द्विज ॥ ३ ॥

एकविंशति मात्रं वा एकोनविंशदेव वा ।
सर्वाभरणसंयुक्तं चतुर्दोरष्ट एव वा ॥ ४ ॥

चतुर्भुजं चेत्पाशं च गजचर्म च दक्षिणे ।
गजशृंगं च चर्मं च वामपार्श्वे करद्वये ॥ ५ ॥

चतुर्दोरेवमाख्यातं अष्टहस्तमथोच्यते ।
शूलं डमरुकं पाशं गजचर्म च दक्षिणे ॥ ६ ॥

गजशृंगं कपालं च गजचर्म च विस्मयम् ।
वामपार्श्वे तु चत्वारो हस्ता एवं प्रकीर्तितम् ॥ ७ ॥

शंभोर्वामांघ्र्यधस्तात्तु गजस्यैव तु मस्तकम् ।
मकुटस्योपरिष्टात्तु गजपुच्छं प्रकल्पयेत् ॥ ८ ॥

पार्श्वयोर्गजपादास्तु यथा युक्त्या तु कारयेत् ।
प्रभामण्डलवच्छेषं गजचर्म प्रकल्पयेत् ॥ ९ ॥

व्याघ्रचर्माम्बरोपेतं दुकूलवसनान्वितम् ।
सर्वालंकारसंयुक्तं अतिरत्नसमप्रभम् ॥ १० ॥

एवं तु गजहामूर्तिः प्रथमं तु विधीयते ।
शूलं खड्गं तथा चर्म गजशृंगं च दक्षिणे ॥ ११ ॥

कपालं खेटकं घण्टां गजचर्म च वामके ।
ललाटमध्यनासाग्रदक्षिणस्तनमध्यमात् ॥ १२ ॥

सव्यस्फिक् पिण्डमध्यात्तु लम्बयेद् ब्रह्मसूत्रकम् ।
सुस्थितं वामपादं तु गजमूर्ध्नस्तु देशिक ! ॥ १३ ॥

उद्धृतं दक्षिणं पादं तिर्यगुत् टितं भवेत् ।
तदंघ्रिपार्ष्ण्यात् स्फिक् पिण्डात्वन्तरं चतुरंगुलम् ॥ १४ ॥

तज्जानुर्वामक्षस्य सीमासूत्रं समं नयेत् ।
एवं द्विविधमाख्यातं गजहारिं च चोच्यते ॥ १५ ॥

स्कन्दोद्धृतह्युमादेवी शंभोर्वामे भयान्विता ।
एवं हि कल्पितं बिम्बं राजराष्ट्रविवृद्धिदम् ॥ १६ ॥

इत्यंशुमान्काश्यपे गजहारिमूर्तिलक्षणपटलः (त्रिसप्ततितमः) ॥ ७३ ॥