अंशुमत्काश्यपागमः/अर्धनारीश्वरमूर्तिलक्षणपटलः ७२

विकिस्रोतः तः
← पटलः ७१ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ७३ →


अथार्धनारीमूर्तेस्तु वक्ष्येऽहं शृणु सुव्रत ! ।
चतुर्भुजं च द्विभुजं द्विविधं परिकीर्तितम् ॥ १ ॥

समभंगस्थानकस्योक्तमार्गेणैव नतायतः ।
सुस्थितं दक्षिणं पादं वामपादं तु कुंचितम् ॥ २ ॥

वामेऽर्धपार्वती युक्तं दक्षिणेऽर्धं महेश्वरम् ।
अभयं परशुं सव्ये हस्ते तत्तु शिवांशकम् ॥ ३ ॥

वृषभमूर्ध्नि विन्यस्त कोर्परं वामहस्तके ।
तदन्यवामहस्ते तु कटकं पुष्पसंयुतम् ॥ ४ ॥

द्विभुजे वरदं सव्ये वामहस्ते तु पुष्पधृत् ।
शिवस्या भरणं सव्ये वामे स्त्रीभूषणान्वितम् ॥ ५ ॥

पुंस्तनं दक्षिणे पार्श्वे वामे स्त्रियः पयोधरम् ।
अथवा कुंचितं सव्यं पादं वामं तु सुस्थितम् ॥ ६ ॥

सव्यं शूलधरं हस्तं वामं पुष्पधरं भवेत् ।
वरदं दक्षिणं हस्तं अन्योक्षशिरकोर्परम् ॥ ७ ॥

कपालं दक्षिणे हस्ते वामहस्तं प्रसारितम् ।
दक्षिणे रौद्रदृष्टिः स्याद्वामपार्श्वे तु शीतलम् ॥ ८ ॥

दुकूलं चोरुमध्यान्तं सव्यं गुल्फान्तमन्यकम् ।
एवं समासतः प्रोक्तं अर्धनारीश्वरं हरम् ॥ ९ ॥


इत्यंशुमान्काश्यपे अर्धनारीश्वरमूर्तिलक्षणपटलः (द्वासप्ततितमः) ॥ ७२ ॥