अंशुमत्काश्यपागमः/मध्यमनवतालविधिपटलः ६०

विकिस्रोतः तः
← पटलः ५९ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ६१ →


मध्यमं नवतालं तु वक्ष्ये संक्षेपतः क्रमात् ।
यक्षाप्सरोगणाश्चैव अस्त्रमूर्तिमरुद्गणाः ॥ १ ॥

मध्यमं नवतालेन कर्तव्यं द्विजसत्तम ! ।
अष्टोत्तरशतांगुल्यं पतिमोच्चं विभाजिते ॥ २ ॥

उष्णीषं व्योमभागेन केशं पादोनकं त्रिकम् ।
केशान्तान्नेत्रसूत्रान्तं युगांशं तद्यवोनकम् ॥ ३ ॥

पुटान्तं चैव तत्तुल्यं हन्वन्तं तथा भवेत् ।
पादोन चतुरंशं तु ग्रीवमानमुदाहृतम् ॥ ४ ॥

भान्वंशानि यवोनं तु हिक्काद् हृदयावधि ।
वाभ्यन्तं चैव तत्तुल्यं मेढ्रमूलान्तकं तथा ॥ ५ ॥

पादाधिकगुणोपेतं विंशांशं चोरुदीर्घकम् ।
जानुग्रीवसमं तुंगं जंघा चोरुसमं भवेत् ॥ ६ ॥

जानु तुल्यं तलोत्सेधं बाहुचोरुसमं भवेत् ।
सप्तदशांगुलं प्रोक्तं प्रकोष्ठस्य तु दैर्घ्यकम् ॥ ७ ॥

षडंशाग्नियवोनं तु तलायामं करस्य तु ।
तत्समं मध्यमायामं शेषं युक्त्या समाचरेत् ॥ ८ ॥

इत्यंशुमान्काश्यपे मध्यमनवतालविधिपटलः (षष्ठितमः) ॥ ६० ॥