अंशुमत्काश्यपागमः/उत्तमनवतालविधिपटलः ५९

विकिस्रोतः तः
← पटलः ५८ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ६० →


नवतालोत्तमं वक्ष्ये शृणुत्वेकाग्रमानसः ।
वसवश्चाष्टमूर्तिश्च विद्येशा लोकपालकाः ॥ १ ॥

अन्याश्च देवताश्चैव नवतालोत्तमेन तु ।
सद्वादशशतांशं तु बेरमानविभाजिते ॥ २ ॥

उष्णीषमेकभागेन केशान्तं तु गुणांगुलम् ।
केशान्तादक्षि सूत्रान्तं वेदमात्रं विधीयते ॥ ३ ॥

तस्मान्नेत्रात्पुटान्तं च वेदमात्रमुदीरितम् ।
पुटाद्याद्धनुपर्यन्तं वेदांशं प्रविधीयते ॥ ४ ॥

कर्णमानं तु वेदांशं भान्वंशं हृदयावधि ।
हृदयान्नाभिसीमान्तं तावद्वादश मात्रकम् ॥ ५ ॥

नाभ्यादि मेढ्रमूलान्तं भानुमात्रं विधीयते ।
ऊरुदीर्घं चतुर्विंशत् दशजानु युगांशकम् ॥ ६ ॥

जंघादीर्घोरु तुल्यं स्याद्वेदांशं चरणोदयम् ।
हिक्काधो बाहुदीर्घं तु चतुर्विंशति भागया ॥ ७ ॥

द्विर्नवांशं तु कोष्ठं स्याद्रुद्रांशं तु तलायतम् ।
तन्मध्यांगुलमायामं षडंगुलमुदाहृतम् ॥ ८ ॥

कन्यसं दशतालोक्तमार्गे शेषं समाचरेत् ।
तस्माद्येव यवार्धं हि अंगं प्रत्येनमाचरेत् ॥ ९ ॥

मानमेवं समाख्यातं लक्षणं कथितं पुरा ।

इत्यंशुमान्काश्यपे उत्तमनवतालविधिपटलः (एकोनषष्ठितमः) ॥ ५९ ॥