अंशुमत्काश्यपागमः/भानुभूमिविधिपटलः ३८

विकिस्रोतः तः
← पटलः ३७ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ३९ →

अथ वक्ष्ये विशेषेण भानु भूमि विधिं परम् ।
तस्य विस्तारतुंगं तु प्रोक्तं प्रासादमानकम् ॥ १ ॥

स सप्तधर्मभागं तु कृत्वा प्रासादविस्तृतम् ।
भूतांशं गर्भगेहं तु पक्षांशं गृहपिण्डिका ॥ २ ॥

अलिन्दमेकभागेन कुड्यमेकांशमानतः ।
अलिन्दं तु शिवांशं स्याद्धारा भागेन कल्पयेत् ॥ ३ ॥

अथवा गर्भगेहं तु गुणांशेनैव कारयेत् ।
गर्भगेहस्य तुल्यं वा गृहपिण्डेस्तु विस्तृतम् ॥ ४ ॥

शेषं प्रागिव कर्तव्यं अलिन्दं कुड्यहारया ।
विन्यास सूत्रयोरन्तसप्तादशविभाजिते ॥ ५ ॥

गुणांशं मध्यशालास्या कर्णकूटं शिवांशकम् ।
तयोर्मध्ये तु पक्षांशं शालादीर्घमुदाहृतम् ॥ ६ ॥

कूटकोष्ठान्तरे चैव कोष्ठयोरन्तरेऽपि वा ।
शिवांशं पंजरव्यासं कर्णकूटमिवाकृतिः ॥ ७ ॥

हारान्तरं तदर्धांशं क्षुद्रपंजरसंयुतम् ।
एवमादितलं कुर्यात् ऊर्ध्वं रुद्रतलोक्तवत् ॥ ८ ॥

सप्तविंशच्छतं भागं कृत्वा हर्म्यो द्विजोत्तम ! ।
धरातलोदयभूतांशं नवांशं चरणोदयम् ॥ ९ ॥

सार्धवेदांश मंचोच्चं ऊर्ध्वं भानुतलोक्तवत् ।
एवं भानुतलं प्रोक्तं त्रयोदशतलं शृणु ॥ १० ॥


इत्यंशुमान्काश्यपे भानुभूमिविधि पटलः (अष्टत्रिंशः) ॥ ३८ ॥