अंशुमत्काश्यपागमः/त्रयोदशभूमिविधिपटलः ३९

विकिस्रोतः तः
← पटलः ३८ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ४० →


अथ वक्ष्ये विशेषेण त्रयोदशतलं शृणु ।
तस्य विस्तार तुंगं च प्रासादमानवद्गृहम् ॥ १ ॥

एकोनविंशदंशं तु कर्तव्यं सदनस्ततम् ।
गुणांशं गर्भगेहं तु पक्षांशं गृहपिण्डिका ॥ २ ॥

अलिन्दं तच्छिवांशं स्याद्धारा भागेन कल्पयेत् ।
तद्बाह्येऽलिन्दमेकांशं हाराभागेन देशिक ! ॥ ३ ॥

व्योम भागमलिन्दं स्यात् हारव्यासं च तत्समम् ।
विन्याससूत्रयोरन्तः एकोनविंशदंशकैः ॥ ४ ॥

शिवांशं कर्णकूटं स्यात् मध्ये शालाऽग्निभागया ।
प्. १४८) पक्षशाला च तत्तुल्यं एकांशं पंजरस्य तु ॥ ५ ॥

हारान्तरं तदर्धांशं क्षुद्रपंजरसंयुतम् ।
पंजरं कर्णकूटाभं तस्याभं क्षुद्रपंजरम् ॥ ६ ॥

एवमादितलं प्रोक्तं ऊर्ध्वभानुतलोक्तवत् ।
चत्वारिंशद्द्वयाधिक्य शतांशे सदनोदयम् ॥ ७ ॥

पंचांशं तदधिष्ठानं दशांशं चरणोदयम् ।
भूतांशं मंचमानं स्यात् शेषं द्वादशभूमिवत् ॥ ८ ॥

त्रयोदशतलं ह्येवं कलाभूमिमथोपरि ।

इत्यंशुमान्काश्यपे त्रयोदशभूमिविधिपटलः (एकोनचत्वारिंशः) ॥ ३९ ॥