अथर्ववेदः/काण्डं २०/सूक्तम् ०४०

विकिस्रोतः तः
← सूक्तं २०.०३९ अथर्ववेदः - काण्डं २०
सूक्तं २०.०४०
मधुच्छन्दाः।
सूक्तं २०.०४१ →
दे. इन्द्रः मरुतश्च, २-३ मरुतः । गायत्री।

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
मन्दू समानवर्चसा ॥१॥
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
गणैरिन्द्रस्य काम्यैः ॥२॥
आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
दधाना नाम यज्ञियम् ॥३॥