भानुमती–-अज्जउत्त ! अन्तरीअदु एदं पसण्णबम्हणवेदघोसेण ।( आर्यपुत्र ! अन्तर्यतामेतत्प्रसन्नब्राह्मणवेदघोषेण ।)
राजा--( सावज्ञम् । ) ननु गच्छ । पुरोहितसुमित्राय निवेदय ।
कञ्चुकी--यदाज्ञापयति देवः । ( इति निष्क्रान्तः । )
( प्रविश्य ।)
प्रतीहारी--( सोद्वेगमुपसृत्य । ) जअदि जअदि महाराओ । महाराओ । महाराअ महादेवी क्खु एसा सिन्धुराअमादा दुस्सला अं पडिहारभूमीए चिट्ठदि । ( जयति जयति महाराजः । महाराज ! महादेवी खल्वेषा सिन्धुराजमाता दुःशला च प्रतीहारभूमौ तिष्ठति ।)
राजा--( किंचिद्विचिन्त्यात्मगतम् । ) किं जयद्रथमाता दुःशला चेति ? । कच्चिदभिमन्युवधामर्षितैः पाण्डुपुत्रैर्न किंचिदत्याहितमाचेष्टितं भवेत् । ( प्रकाशम् ) गच्छ । प्रवेशय शीघ्रम् ।
प्रतीहारी--जं देवो आणवेदि । (यद्देव आज्ञापयति । ) ( इति निष्कान्ता)
( ततः प्रविशति संभ्रान्ता जयद्रथमाता दुःशला च ।)
( उभे सास्रं दुर्योधनस्य पादयोः पततः ।)
माता--परित्ताअदु परित्ताअदु कुमालो । (परित्रायतां परित्रायतां कुमारः । )
( दुःशला रोदिति ।)
राजा--( ससंभ्रममुत्थाप्य ।) अम्ब ! समाश्वसिहि समाश्वसिहि । किमत्याहितम् ? अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य ? ।
माता--जाद ! कुदो कुसलम् ? । ( जात कुतः कुशलम् ? )
राजा--कथमिव ?
माता--( साशङ्कम् । )अज्ज क्खु पुत्तवहामरिसिदेण गाण्डीविणा अणत्थमिदे दिवसणाहे तस्स वहो प्पडिण्णादो । ( अद्य खलु पुत्रवधामर्षितेन गाण्डीविनानस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः । )
राजा--( सस्मितम् ।) इदं तदस्रकारणमम्बाया दुःशलायाश्च ? । पुत्रशोकादुन्मत्तस्य किरीटिनः प्रलापैरेवमवस्था ? । अहो मुग्धत्वमबलानाम् ।