सामग्री पर जाएँ

पृष्ठम्:भामिनीविलासः.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
भामिनीविलासे

श्वासो दीर्घस्तदवधिमुखे पाण्डिमा गण्डमूले
शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥ ६३॥

 आविरिति । हे राधिके, यदवधि यदारभ्य । नन्देति । श्रीकृष्णस्येत्यर्थः । मध्विति । मधुवन्मद्यवत्स्पन्दयति व्यामोहनेन धैर्याचेतश्चालयतीति तथा । खदर्शनमात्रेणैवोन्मादयित्रीत्यर्थः । एतेन दुर्निरसत्वं सूचितम् । तत्र हेतुः-- निखिलेति । निखिलानां सकलजीवानाम् । एवं च यदा पुरुषनपुंसकादिसाधारण्येन यावज्जीवानामपि नेत्राकर्षणे कुशला भगवतः कान्तिस्तदा वामसावाकर्षयिष्यतीति किमु वक्तव्यमिति द्योत्यते । यानि नयनानि नेत्राणि तेषां यदाकर्षणं वशीकरण तत्र यत्कार्मणं कर्मणाथर्वणप्रसिद्धवशीकरणक्रियाविशेषेण कृतं कार्मणम् । निरुक्त- शक्तिविशेषशाल्यदृष्टमित्यर्थः । तत्संपादयितुं जानातीति तथा एतादृशी । अत एव काचिद्वागगोचरा कान्तिर्लावण्यलक्षणा यौवनद्यतिरिति यावत् । अविभूता प्रकटी- भूतेत्यर्थः । तदवधि । तदारभ्यैवेति यावत् । कुलेति । कुलस्य । सत्कुलस्येत्यर्थः । तथास्मदादीनां हस्तद्वयादिमत्त्वेऽपि न हस्तिपदशक्यत्वं रूढं गजस्य तु तदभावेऽ- प्येकस्यैव शुण्डादण्डरूपस्य प्रशस्ततरस्य तस्य सत्त्वेन तत्सर्वसंमतमेव तद्वत्सामान्य- तः स्त्रीत्वावच्छिन्नानां जन्यतया कुलैकसंबन्धित्वेऽपि पातिव्रत्याद्यनुमितप्राशस्त्य- शालिकुलजन्यस्त्रीष्वेव कुलका मिन्यादिपदवाच्यत्वमिति प्रकृते सदादिपदाभावेऽपि तदार्थिकत्वं वोध्यम् । न तु केवलमृगाक्षीणाम् । तेन यत्र सतीशिरोमालतीभूतानाम- पीदृश्येवावस्था तत्र परकीयाया भवत्याः कैव कथेति व्यज्यते। मृगपदेनाविभीति- खाभाव्यात्स्मरशरातुरवातिशयः सूचितः। साध्य(ध्व)भिधमुग्धानमित्यर्थः। मुखे वदने दीर्घा नियतपरिमाणाधिकगामी श्वासो निःश्वासः । यद्यदि श्वासस्य नासि- कैकायतनत्वखाभाव्येन मुखाधिकरणकत्ववर्णनमनुचितमिव भाति तथापि भगव- सौन्दर्याद्यभ्युदयदर्शनजन्यानुरागपातिव्रत्यपरिपालनोभयभयजन्यवैकल्योत्कर्षध्व- ननार्थ तदुचितमेवेति तत्त्वम् । अत एव । दीर्घ इति । तथा गण्डमूले कपोल- तले पाण्डिमा । विरहशुभ्रिमेत्यर्थः । न केवलं बाह्यचिह्नमेवैवं किंवान्तरमपि तत्तादृश मिति व्यनक्ति-शून्येति । किं पातिव्रत्यं हेयमुत भगवद्गतिलालस्यमिति निर्णयाभावजन्यकषायाभिधसंकल्पहीनेति यावत् । एतादृशी वृत्तिर्वर्तनं चेतसि प्रादुरासीत्प्रकटीबभूवेति सरलमेव । न च कुलमृगदृक्पदवाच्यपतिव्रतानां परपुरु- षीयलोकोत्तरलावण्यवीक्षणमेवादौ ‘पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः' इति