पृष्ठम्:भामिनीविलासः.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
शृङ्गारोल्लासः

संप्रतीत्याद्युत्तरार्धेन । संप्रति मन्मथः । एवं च क्लीबेतरावच्छेदेन सामान्यतः सर्वमनोमथयितुस्तस्य त्वद्राज्योत्सादनादिना त्वन्मनोव्यथकत्वे कैव शङ्केति सूचितम् । तेन पुंराज्यमपहृत्य क्लीबाय तद्दानानौचित्यं परास्तम् । यो न यत्पीड्यः स तत्प्रेमयोग्य इति व्याप्तेरन्वयादिना सिद्धत्वातद्धिनस्यैव तत्पीड्यत्वाच्च । एवं संप्रतिपदेन तात्कालिकं निरुक्तनायिकायास्तन्निकटावस्थानं व्यज्यते । उन्मदेति । उन्मदौ सुरतलालसौं यौ खञ्जरीटौ । ‘खञ्जरीटस्तु खञ्जनः' इत्यमरात्खञ्जनदम्पती इत्यर्थः । ताविव नयने नेत्रे यस्याः । एतेन तद्वक्रय पद्मत्वं ध्वन्यते । तेन ‘एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्बलाधिपत्यम्' इत्यादि- कालिदासीयशृङ्गारतिलको तेरहो यद्दर्शनमात्रेणान्येषां राज्यावाप्तिस्तस्य तन्निरति- शयाखण्डतायोग्यतायाः कैमुत्यसिद्धिरिति ध्वनितम् । वक्राय । मुखायेत्यर्थः । अस्य जगतोऽखण्डमविनाशि । एतेन प्रत्याप्त्याशोपशमः सूचितः । राज्यं दाता दास्यतीति संबन्धः । एवं तर्हि प्राक्तस्य दारिद्यादनविकारितैवोक्तदाने नह्यकिंचनो विप्रो गजदानपात्रं दातुस्तकर्तृकत द्विक्रयपापप्रयोजकवापत्तेः । इत्यतो विशिनष्टि- नित्येति । ननु जगद्धात्रा विधात्रा मह्यमेव राज्यं दत्तं तत्कथमनङ्गोऽप्यसावपहृ- त्यान्यस्मै दास्यतीत्यतस्तं विशिनष्टि । अस्य जगतो नवः । धातेति । मैथुन्यां सृष्टौं मदनाधिनैवोत्पत्तिरिति प्रसिद्धमेव । नन्वेवमपि ‘धाता यथापूर्वमकल्पयत्' इत्यादिश्रुत्या प्राच्यधातृरीतिरेवानेनापि परिपाल्येति यदि विभाव्यते तदा नित्येति तादथ्ये चतुर्थी । एवं च तुभ्यं तेन राज्ये दत्तेऽपि क्षयादिना ते नित्य- श्रीनै वासेति । प्रकृते तु न तथालमिति । अधिकारस्तून्मदेयेतेनैव । अत्र प्रमु- दितौ नायिकानायकों । संभोगविशेषः शृङ्गारः । हेतुप्रतीपलुप्तोपमापरिक- रादयोऽलंकाराः ॥

 अथैवं भगवता श्रीकृष्णेन स्तुतेति परमगर्विता राधिका केनचिच्छद्मना प्रणय- कोप संपाद्य तूष्णीभूता सती नायकेरिततद्रहःसंख्या श्रीकृष्णस्य सौन्दर्यदर्शनेन यदी कुलस्त्रीणामपि कामव्याकुलीभावः संपन्नस्तदानुभूततद्रविसुखसंपत्त्या भव- त्यास्तावत्कैव कथा क्षणान्तरे तदभिसरणेऽतः सद्यो मह्यमेव यशः किमिति न देय- मिति बोध्यते-अविभूतेत्यादिद्वाभ्याम्-

आविर्भूता यदवधि मधुस्पन्दनी नन्दसूनोः
कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणझा।