नते ध्रुवौ यत्र । अत एव स्मयमानं सितयुतम् । एतादृशम् । वदनेति । मुखा ब्जमित्यर्थः । एतेन हीप्रीत्यौ द्योत्येते । इह सलज्जोत्कण्ठा नायिका । लुप्तोपमा दिरलंकारः। शेषं प्राग्वत् ॥
अथ निरुक्तसखीसमक्षमेव वसन्तागमव्यञ्जकमलयानिलाद्युद्दीपनविभवासहि- कृणुतां कथयन्श्रीकृष्णो राधिकाप्रसादनत्वरां सूचयति
कथय कथमिवाशा जायतां जीविते मे |
कथयेति । अयि सखि, मे जीविते न तु धनादौ । तेन त्वयाधुना तत्प्रसा दने विलम्बलेशोऽपि न कार्यं इति व्यज्यते । आशा संभावनापि । तेन वस्तुत स्तत्रैव स्थास्यतीत्यतिवैक्लव्यं ध्वन्यते । कथामिव जायतामिति त्वमेव कथयेति संबन्धः । किमिति तत्संशयस्तत्राह-मलयेत्यादिना । तेन तेषु दाहकत्वानुमितं विषसंपृतत्वं ध्वन्यते । मलयाचलचन्दनसंबन्धित्वेन शीतादिमत्त्वं त्वविनाभाव सिद्धमिति बोध्यम् । अत एव विरहिणो मे । कृतान्ताः ‘कृतान्तो यमुनाभ्राता’ इत्यमरान्मृत्यवः । एतादृशा वाताः पवना वान्ति । प्रसरन्तीत्यर्थः । न केवल मेतावदेव किंत्वन्यदपि तथेति कथयति-अयमपीति । अयं प्रत्यक्षश्चञ्चरीको भ्रमरोऽपि माकन्दमौलौ प्रफुल्लाम्रशिखरे मनु मधुरं गुञ्जन्सन्मदीयां चेतनां ‘प्रतिपज्ज्ञप्तिचेतनाःइत्यमराद्विवेकसाधनीभूतां बुद्धिमपि चुलकयत्याचामति खल्विति योजना । एवं च विवेकसामर्या अप्यभावः सूचितः । तस्मात्त्वया त्वरयैवासौ प्रसादनीयैवेत्याशयः । अत्र कुपिता मध्या परकीयैव नायिका । विरही नायकः विप्रलम्भः शृङ्गारः। काव्यलिङ्गादिरलंकारः । मालिनीवृत्त मिदम् । तदुक्तम् –‘ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥
पुनस्तल्लीलान्तरमेव श्रीकृष्णस्तत्सखीं प्रति कथयंस्तप्रसादन एव त्वरयति—
निरुध्य यान्तीं तरसा कपोतीं |