ततः श्रीकृष्णः कुजादौ निश्यन्यां गोपयुवतिमुपभुज्य राधिकासंकेतितमालती कुजे निशीथे समागतस्तया प्रत्युद्गमनादिना सत्कृतश्च, तदनन्तरं राकाचन्द्रिकायां तमालिङ्गितुं तस्कन्धे संस्थापितापि निजभुजकल्पलतामजरी तद्वक्षसि स्वशत्रुभूत गोषयुवत्यन्तरकृतगाढालिङ्गनप्रसङ्गसंपन्नमौक्तिकस्रग्जनितत्वगादिनिकोचनचिहमव लोक्य सद्यःकुपितया तया तत्क्षणादेवाकृष्टेति कविस्तत्कोपचापल्यं प्रकाशयति--
वीक्ष्य वक्षसि विपक्षकामिनी |
वीक्ष्येति । अत्र कामिनीत्युक्तचिह्नहेत्वर्थम् । एवं दयितपदं प्रियत्वसूचना- तदंसदेशे स्वबाहुलतानिधानयोग्यताध्वननार्थम् । तद्वद्वल्लरीपदमपि तस्यामति सौकुमार्यद्योतनार्थमेव बोध्यम् । स्पष्टमेवान्यत्। इह परकीया मध्या खण्डिता नायिका । वञ्चको नायकः । विप्रलम्भः शृङ्गारः। लुप्तोपमादिरलंकारः॥
एवं कुपितायां राधिकायां सत्यां तत्प्रसादनार्थंमन्येद्युस्तत्सखीं समुत्कण्ठयितुं श्रीकृष्णस्तल्लीला एव सुरतादिरूपाः स्मृत्वा संवर्णयति-दरानमदित्यादिचतुर्भिः ।
दरामत्कंधरबन्धमीष- |
दरानमदिति । अत्र प्रतिपद्य हे सखीति संबोधनाध्याहारो बोध्यः । अह मङ्गनायाः प्रकृताया राधिकायाः सङ्ग संभोगं चिरं स्मरामीति योजना । तत्र हेतुं द्योतयितुं विशिनष्टि-क्षुद्रेत्यादित्रिभिः। दरमीषदानमन्ती कंधरा शिरोधिः कंधरेत्यपि’ इत्यमराष्ट्रीवा यत्र तादृशो बन्धः पुरुषायिताभिधः सुरतरचनाविशेषो यस्मिस्तत्रैव तसंभवात्तमित्यर्थः । अत एव । ईषदिति । निग्धपदेनानन्दाश्रुसद्भावो व्यज्यते । किंचेतोऽपि तत्र विपरीतरतत्वमेवेति व्यनक्ति--अनल्पेति । अङ्ग शरीरम् , न तु हस्ताद्यवयवाः। तस्मादेतादृगनुपमसुखदां तां त्वं हुतं प्रसादयै त्याकूतम् । इह स्मर्यमाणा प्रमत्ता मध्या परकीयैव नायिका । प्रकृता तु कुपितैव । उत्कण्ठितो नायकः । विप्रलम्भः ष्ठङ्कारः। उक्त एवालंकारः ।