पृष्ठम्:भामिनीविलासः.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
शृङ्गारोल्लासः ।

रस्कारो व्यज्यते । अतएव अविरलेति । सततस्खलदश्रुधारामित्यर्थः । एते माल्यसाधित्वं ध्वन्यते । तत्रापि ‘धनेन कान्ताम्’ इत्युक्तेर्नवभूषणसमीहाया नवोढाचेष्टात्वोतेश्च मया चूडामण्यादेर्भूषणस्य प्रदाने कृतेऽपि नैव प्रससादेति व्यनक्ति-निरस्तेति । ऋजवस्तु त्यक्तखङ्गनाभरणामिति विवरिष्यन्ति । इह कुपिता स्वीयादिर्मध्यैव नायिका । तत्परो नायकः । स्वप्नो व्यभिचारी भावः। विप्रलम्भ एव शङ्करः । परिकरकाव्यलिङ्गदयोऽलंकाराः । हरिणीवृत्तम् । तदु तम् —'रसयुगहयैन्स घ्रौ स्लौ गो यदा हरिणी तदा' इति ॥

 अथैवं प्रेयोवाक्यमाकण्यं तप्रेमदाढ्यावधारणेन सद्यः सुप्रसन्नया प्रेयस्याः सह यथेच्छं सुरतसुखमुपभुज्य प्रातः सकललानप्राकालिककृत्योत्तरं सरथं कालिन्दीं वा स्नातुमागतां सीतां राधां वालक्ष्य श्रीरामः श्रीकृष्णो वा तदर्थमेव तत्रैवागतः संस्तीरवर्तिन्यास्तस्याः खप्रियदर्शनेनातिप्रसन्नं वदनारविन्दं तथा विकासोन्मुखं नीरवर्ति कमलं प्रत्यपि मकरन्दलोभवशादुभयत्रापि धावमानां भ्रमरकिशोरस रणिमवलोक्य तन्मौग्ध्यं स्वमनस्येव वर्णयति--

तीरे तरुण्या वदनं सहासं
नीरे सरोजं च मिलद्विकासम् ।
आलोक्य धावत्युभयत्र मुग्धा
मरन्दलुब्धालिकिशोरमाला ॥ २१ ॥

 तीर इति । रे मनः, इयमलिकिशोरमाला मुग्धा भ्रान्ता भवति । तथा वं मा भव । किंतु विवेकेन स्वरमण्यानन एव संसक्तं भवेति भावः । कुतोऽस्या भ्रान्तिरवधार्यत इति चेत्तत्राह--यत इयं तीरे तरुण्याः सहासं वदनं नीरे मिल द्विकासं सूर्योदयवशात्प्राप्तसंफुल्लभावं सरोजं चालोक्य मरन्दलुब्धा सत्युभयत्रापि धावतीति संबन्धः । अत्र किशोरपदं हि भ्रमयोग्यतार्थम् । एवं च तदानने पद्मा न्यूनानतिरिक्तत्वं व्यज्यते । इह मध्या मुदिता स्खकीया परकीया वा नायिका । हृष्टो नायकः । कटाक्षादिसंभोग एव शृङ्गारः। भ्रान्त्यादिरलंकारः। यवेकस्या अलिकिशोरमालाया ऐककालिकोभयकर्मकधावनक्रियासंभवविभावनमधुजरतीया- नौचित्याचेत्तर्दास्तु कालभेदेन तद्यदा प्रथमं सौरभ्याद्याधिक्यलक्षणपश्चिमीजा- त्यधर्मतः सीतादिमुखे धावल्यसौ तदा तत्रापि नेत्रादिपञ्चवैधर्म्युघटकांशदर्शनत- स्ततः परावृत्य पुनः सरोजे धावति तत्रापि तादृक्सौगन्ध्यालाभात्ततोऽपि पुनः परावृत्य तत्र धावतीत्यतः संदेहादिरेवासाविति रहस्यम् ॥