सामग्री पर जाएँ

पृष्ठम्:भामिनीविलासः.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
अन्योक्त्युल्लासः ।

ण्विति । करेणव एव गज्य एव परिशेषिता मारणादवशेषिताः । शूराणांहि स्त्रीवधानौचित्यात्ता एवावस्थापिता यस्यां सा तथा। एतादृशी भविता भविष्यतीति संबन्धः। तस्माद्वनान्तर एव वया गन्तव्यमिति हृदयम् । मञ्जुभाषिणीवृत्तमिदम् । तदुक्तं वृत्तरत्नाकरे-‘सजसा जगौ भवति मजुभाषिणी’ इति ॥

 एवं स्खोत्कर्षसूचनपरितुष्टो राजपुत्रस्तं स्वगुरुं पण्डितमण्डलीमण्डनवेन बकु लान्यया स्तौति--

निसर्गादारामे तरुकुलसमारोपसुकृती
कृती मालाकारो बकुलमपि कुत्रापि निदधे ।
इदं को जानीते यदयमिह कोणान्तरगतो
जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ५२ ॥

 निसर्गादिति । निसर्गात्खभावात् । आराम उपवने । तर्विति । तरूणां वृक्षा- णामाम्रादीनां यत्कुलं वृन्दं तस्य यः समारोपः सम्यगुत्तमफलपर्यवसायिनारो- पोऽवापस्तेन यत्सुकृतं पुण्यं तदस्यास्तीति तथा सवृक्षारोपणपुण्यवानित्यर्थः । एता दृशः । तत्रापि कृती कुशलः । एतेन तदारोपणस्थानविवेचनचातुर्य सूचितम् । एतादृशः । मालेति । शिष्टं पूर्वार्ध बोधार्हमेव । अस्त्वेवं किं तत इत्यत आह—इदमित्युत्तराधैन । किं तदित्यत्राह--यदिति । कोणेति । कोणान्तरग- तोऽपीत्यर्थः । एवं च प्रतिष्ठासामप्यभावः सूचितः । जगदिति । विश्वमण्डलमि त्यतिशयोक्तिः । तेन लोकोत्तरसष्ठव व्यज्यते । कुसुमेति । कुसुमानां पुष्पाणां यो भरस्तस्य यत्सौरभ्यं सौगन्ध्यं तेन भरितं पूरितमित्यर्थः । एतादृशं कर्ता करिष्य- तीति । तस्माद्यद्यपि मयायं ब्राह्मणसाधारण्येनैवादृतस्तथाप्यस्य सङ्करोरलौकिकमेव सामर्थमित्यसौ माननीय एवेति भावः । अत्र ललितो नायकः । अद्भुतो रसः । असंभवोऽलंकारः ॥

 अथोत एव तटस्थोऽपि संस्तुवन्राजकुमारनिन्दां ध्वनयति—यस्मिन्नितिराघवान्योक्त्या ।

यस्मिन्खेलति सर्वतः परिचलत्कल्लोलकोलाहलै
र्मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे ।
सोऽयं तुङ्गतिमिंगिलाङ्गकवलीकारक्रियाकोविदः
क्रोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः ॥ ५३ ॥