अथ तं तटस्थं प्रत्यपि स एव पण्डितवरस्तावन्मया निरुकरीत्योपशमितस्यास्य निकटे त्वया नैवेतः परं स्थातव्यमिति गजान्योक्तिभ्यां व्यनति--
स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे |
स्थितिमिति । मदेति । मदेनान्धे ईक्षणे नेत्रे यस्य स तथा तत्संबुद्धौ । एतेनावस्थितिशीलवं ध्वन्यते । सखे । एवं चोपदेशार्दवं व्यज्यते । गजेति । रे करिकुलपते, त्वमिह जटिलायां वल्दीबाहुल्येन संजातजटायामेतादृश्यां वनभुव्य रण्यभूमौ क्षणमपि । एतेन भीत्यतिशयः सूच्यते । स्थितिं नो दध्या नैव कुर्वि त्यन्वयः । तत्र हेतुः-असाविति । एतेन प्रत्यक्षवादविवासव्युदासः । कुन्भीति । गजविभ्रभेणेत्यर्थः । कुम्भिपदभ्रान्यर्हवं व्यनक्ति-खरेति। खराणि तीक्ष्णानि यानि नखराणि नखानि तैर्विद्राविता विदारिता महागुरुप्राव्णां महापा षाणानाम् । अत्र महत्त्वं स्थूलत्वम् । गुरुत्वं तु वजमणिवहुर्भद्यत्वमेवेति न पौनरुक्त्यम् । अत्र ‘महागिरि-' इत्येव पाठः प्रामाणिकः। प्रामाः संघा येन स तथेति यावत् । तत्र खरपदं निरुक्तकार्यक्षमखसूचनार्थम् । एतादृशः । अत एव--हरीति । मृगराजराजः । गिरीति । कन्दर इत्यर्थः । स्वपिति निद्रातीति
योजना । तस्मादिह तवावस्थानमनुचितमेवेति भावः। भ्रान्त्यालंकरः ||त् center|
गिरिगह्वरेषु गुरुगर्वगुम्फितो
गजराजपोत न कदापि संचरेः ।
यदि बुद्ध्यते हरिशिशुः स्तनंधयो
भविता करेणुपरिशेषिता मही ॥ ५१ ॥
}}
गिरीति । हे गजेति । अयि करीन्द्रपुत्र, त्वम् । गुर्विति । गुरुर्महान्न चासौ गवंश्व तेन गुम्फितो ग्रथितः । परमबलामभिनिवेशावेशित इत्यर्थः । एतादृशः । अत एव-गिरीति । गिरेः पर्वतस्य यानि गह्वराणि बिलानि तेष्वित्यर्थः । कदापि कस्मिंश्चित्कालेऽपि । एतेन भयाधिक्यं व्यज्यते । न संचरेः संचारमपि नैव कुर्यां इत्यन्वयः । कुत इत्यत्राह-यदीत्युत्तराधैन । यदि स्तनंधयोऽष्यति पोतोऽपि । हरीति । सिंहबालको बुध्द्यते जागर्ति चेत्तर्हि मही पृथ्व्यपि । करे