सन्ति नेत्याह-गुणैरिति । अन्यैरपि निरुक्केतरैः खीयसुन्दरीस्मितसदनमाड इयायैरपीत्यर्थः। ललितस्य । रम्यस्येति यावत् । एतादृशस्य तव यदि । द्विजेति । पक्षिश्रेष्ठे । पक्षे त्रैवर्णिकशिरोमणौ । हंसे राजहंसे, पक्षे परमहंसे । कस्मिंश्चिद्रह्मनिष्ठ इत्यर्थः । रतिः प्रीतिरस्ति । तह्यमतीवानुपमैवोन्नतिरुत्कटता भवतीत्यन्वयः । तस्मादेवमेव सार्वदिकी श्रद्धा वर्धनीयेति तत्त्वम् । अत्र द्विजे त्यादरणीया शब्दब्रह्मनिष्णातखादिबहिःसामग्री हंसेत्यन्तःसामग्री च सूचिता । इह बुभुत्सुर्नायकः। शान्तो रसः । काव्यलिङ्गादिरप्यलंकारः । शिखरिणी वृत्तम् ।
ननु तर्हि किं सर्वपालकेन राज्ञा मया नीचजनोज्जीवनं नैव विधेयमिति चेत्व र्वजीवनं त्वया संपादनीयमेव परंतु तत्तद्योग्यतातारतम्यं विवेकेनैव न त्वन्यथेति क्षीराब्ध्यन्योक्तितो ध्वनयति-
साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा |
साकमिति । प्रावेति‘। पाषाणप्रतरप्रावोपलाशमानःइत्यमरात्पाषाणगणैः साकं सार्धम् । नीरे नीरवत्सर्वतः परिपूर्णं क्षीर एव । नतु फलवदिवत्कचित्कदा चित्केनचिदुपलभ्यमान इति यावत् । एतेन क्षीरार्णवे नीरसंभवानीरपदप्रयोगानौ चित्यं परास्तम् । एवं नीरचरपदेऽपि तेषामतितुच्छत्वबोधनार्थमेव नीरपदम्। तेन वक्ष्यमाणाविवेकपरिपोषोऽपि ध्वन्यते । नीरचरैः ।।मकरादिभिर्जलचरैरि त्यर्थः । स भगवानिति पदाभ्यां श्रुतिप्रसिद्धत्वं सर्वेश्वरत्वं ततोऽतिपूज्यवं च व्यज्यते । हे क्षीरार्णव, त्वामहं किं निन्दान्यथवा स्तवानीति त्वमेव कथयेति संबन्धः । अत्राविवेकी नायकः । संदेहोऽप्यलंकारः। शार्दूल विीडितं वृत्तम् ।
एवं निन्दापदं श्रुत्वा कुपितं तं प्रति खयं निःस्पृहत्वेन क्षीरार्णवन्योक्तयानिन्दामेव स्फुटयति--
किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते । |
किं खल्विति। अभ्रायितेन अभवन्मेघवदाचरितेनेत्यर्थः । महत्त्वनीलत्व दिनाभ्राम्यं बोध्यम् । तत्र हेतुः-वळिलमपीति । एतेन तस्यातितुच्छत्वाद्दान