तोयैरल्पैरपि करुणया भीमभानौ निदाघे |
तोयैरिति । हे मालाकार । मालाः पुष्पस्रजः करोतीति तथा तत्संबुद्धौ । भवता कर्त्रा करुणया अल्पैरपि तोयैर्वाप्याद्युद्धृतैर्जलैः करणैरस्य तरोर्या पुष्टिर्भीमभानौ भीमश्चण्डो भानुः सूर्यो यस्मिस्तत्र निदाघे ग्रीष्मर्तौ व्यरचि अकारीत्यन्वयः । किं ततस्तत्राह--सेत्युत्तरार्धेन । सा पुष्टिरिह लोके प्रावृषेण्येन प्रावृषि वर्षाकाले भवः प्रावृषेण्यः प्रावृट्कालीनस्तेनेत्यर्थः । अत एव विश्वतः सर्वतः वाराम् “आपः स्त्री भूम्नि वार्वारि' इत्यमराज्जलानामित्यर्थः। धारासारानपि धाराश्चासाराश्च धारासारास्तान् । धारा जलधराः प्रसिद्धा एव । तथा आसाराः धारासंपात आसारः इत्यमराद्धाराणां संभूयपतनमिति रामाश्रमकृताद्व्याख्यानाच्च धाराणां समुचितपरिपातास्तानपीत्यर्थः । एतेन पुष्टिसामग्रीप्राचुर्यं सूचितम् । विकिरता वर्षता एतादृशेन वारिदेन मेघेन जनयितुं कर्तुं शक्या योग्या किम् । अपितु नैव योग्येति योजना । तस्मात्त्वं निरुपमरवेन स्तोतुं योग्य एवेति भावः । अत्रोक्त एव नायको भावश्च । प्रतीपविशेषोऽलंकारोऽपि । मन्दाक्रान्ता वृत्तम् । तदुक्तम्- ‘मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्’ इति ॥
एवं निरुक्तलोकेऽल्पपदं क्षुद्रत्वं गुरुवाचि व्यनक्तीत्यस्खरसान्मेघान्योक्त्या पुनः स्तौति
आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा |
आरामेति हे तोयद जलद । आरामेति ।‘आरामः स्यादुपवनम्’ इत्यमरादुद्याननायकः। विवेकेति । विचारहीनः । नूनं निश्चितम् । अस्तीति शेषः । एवं ‘रसा विधेभरा स्थिरा इत्यमराद्रमा पृथ्वी । नीरसा निर्गता रसा उदकानि यस्याः सकाशात्तथा जलहीनेत्यर्थः । तद्वद्वायाभिश्चक्रवातैर्दशदिशः परुषीकृताः क्षीकृताः सन्तीति यावत् । तथा । चण्डेति। चण्डस्तीत्र आतपः। ‘प्रकाशो द्योत