पुटमेतत् सुपुष्टितम्
( ५ )
श्लोकाः
सकलमपि विदन्ति हन्त शून्यं क्षितिर्यतयःप्रतिहारवारणामिः ।
क्षणमपि परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥३२॥
गुणिनमगुणिनं वितर्कयन्ती स्वजनममित्रमनाप्तमाप्तवर्गम् ।
वितरति मतिविप्लवं नृपाणामियमुपसर्पणमात्रकेण लक्ष्मीः ॥३६॥
मलिनधियां धिगनार्जवं चरित्रम् ॥६१॥
इह हि विहितभूरिदुष्कृतानां विगलतिपुण्यचयः पुरातनोऽपि ॥६४॥
यशसि रतिर्महतां न देहपिण्डे ॥७७॥
विमलविजयलालसाः खलानामवसरमल्यमपि प्रतिक्षिपन्ति ॥७८॥
त्रिभुवनमहनीयबाहुवीर्यद्रविणविभृतिमतां किमस्त्यसाध्यम् ॥९१॥
दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियम्
तेषामाश्रितपोषणाय गहनं कि नाम पृथ्वीभुजाम् ॥|८८॥
सप्तमसर्गे----
गुणो हि काले गुणिनां गुणाय ॥३२॥
--श्रीरस्तु--
-----------