पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४ )

श्लोकाः
 

 कामुकेषु मियमात्रमीक्षते नित्यकुण्डलितकार्मुकः स्मरः ॥४८॥

 दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः ।
 क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥५१॥

   वेत्ति कश्चरितमुन्नतात्मनाम् ॥५२॥

कार्यजातमसमाप्य धीमतां निद्रया परिचयोऽपि कीदृशः ॥७३॥

 अद्यजातमपि मूर्ध्नि धार्यते किं न रत्नममलं वयोधिकैः ॥८३॥

षष्ठसर्गे----

यशसि रसिकतामुपागतानां तृणगणना गुणरागिणां धनेषु ॥२॥

   कुसुममृदूनि मनांसि निर्मलानाम् ॥३॥

प्रणयिषु शुभचेतसां प्रसादः प्रसरति सन्ततिमप्यनुग्रहीतुम् ॥६॥

मरणमपि तृणं समर्थयन्ते मनसिजपौरुषवासितास्तरुण्यः ॥१३॥ ।

अवतरति मृगीदृशां तृतीयं मनसिजचक्षुरुपायदर्शनेषु ॥१४॥

अपि नयनिगुणेषु नो भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥|२८॥

अवतरति मतिः कुपाधिवानां सुकृतविपर्ययतः कुतोऽपि तादृक् ।
झटिति विघटते यया नृपश्रीस्तटगिरिसंघटितेव नौः पयोघेः ॥२९॥

व्रतमिदमिह शस्त्रदेवतानां दृढमधुनापि कलौ निरङ्कुशेऽपि ।
अविनयपथवतिनं यदेताः प्रबलमपि प्रधनेषु वञ्चयन्ति ॥३०॥