४१
न्मत्त इव बभूव । किंतु: नातः परं मम क्षेमायात्र स्थातुम् । अहं हि परमार्थतो गृहीतः —इति विमृश्य, सोङ्गणप्राकारमारुरोह । झम्पां च दत्त्वा पलायांचक्रे ।
१०. मारजनिस्तु स्वस्थानस्थितैव सर्वमेतत्तूष्णीं लक्षयामास । अथ सर्वं स्तिमिततां गतमालोक्य, साधु फलितो मम प्रयोग:-इति परितुष्टा सा चिन्तापगमविशदेन । मनसा शय्यातलं शिश्रिये ।
११. अथारुणोदयसमयेऽलिपर्वा गृहीतस्नानीयोपकरणेनाव्दपालेन सह स्नानागारं प्रस्थितः । स रात्रिवृत्तं किमपि न जज्ञौ । यतः, चोराणां । प्रमथनात्पूर्वं तेपां बोधं परिहरन्त्या मारजन्या स शब्दाप्य न जागरितः । नापि पश्चात् , अप्रतिबोधाय तेपु सुप्तेषु । तया हि चिन्तितम्—। अधुना । सर्वथा निवारिते व्यसने किं मम स्वामिना निन्दाभङ्गं प्रापितेन ?
१२. अथ स्प्ष्टे प्रभाते स्नाननिवृत्तोऽलिपर्वा, तेन तैलवणिजा नाश्व- तरा न वा तैलघटा यथोक्तं नीताः—इति वीक्ष्य परं विस्मयं गतः । गृहम- प्रविश्यैव मारजनिं तत्र कारणं पप्रच्छ । सा प्रत्युवाच---। मां तावदनुयातु- मर्हसि । जिज्ञासितं सर्वमर्थं त्वां ज्ञापयामि।
१३. एवं प्रार्थितोऽयमङ्गणमवतीर्णः । मारजन्या च बहिर्द्बारं पिधाय, प्रथमकुम्भं नीत्वासौ प्रार्थितः–। कियत्तैलमत्र वर्तते-इति पश्यतु स्वामी। तथा कुर्वन्स कुम्भे तैलस्थाने पुरुषं वीक्ष्य तत्क्षणं सचकितः स्थितः । तं मारजनिरब्रवीत् । अलं भयेन । एप नरो नूनं त्वद्वधकामः, किं तु प्रागेव न संप्रति । अधुना हि, न त्वां न वा कमप्यन्यं हन्तुं प्रभवेत् । असौ हि स्वयमेव हतो वर्तते ।