४०
निरवापयत् । एवं तयानुष्ठिते, निशीथोचितः शमः सर्वत्र प्रबभूव ।
अथात्मना सा महानसगतं वातायनमधितष्ठौ । येन स्वयमदृष्टा सती, सा
तंतं भाविनमर्थं द्रष्टुं समर्था स्यात् ।
७. अथ मुहूर्तेनेव स स्तेनपतिरुत्थाय, गवाक्षमपावृत्य, बहिरालोकयामास । तदा न कोऽपि मनुजश्चलति, न वा दीपो दीप्यते, नापि शब्दः श्रूयते—इत्येवं सर्वत्र व्यवगाहमानां शान्ति प्रेक्षांचक्रे । मेने च—। सर्वथानुकूलोऽयं समयो मम द्विषोऽवस्कन्तुम् । अथ यथासंकेतं संज्ञादानार्थं कुम्भोपरि पाषाणखण्डान्प्राक्षिपत् । तांश्च कुम्भोपरि पततो द्रष्टुं तमसि नैशे नायं शशाक । तथापि तेषां प्रहारेण कुम्भतः शब्दानुत्थिताञ्शुश्राव। पुरुषं तु नैकमप्युत्थितं ददर्श । येन तन्मनो महतीं चिन्तामापेदे । तदनुचर हि, अद्ययावन्नित्यं तदादेशाञ्श्रुतमात्रानन्वतिष्ठन् । अथासौ द्वितीयेन तृतीयेनापि पाषाणखण्डनिचयं चिक्षेप । यथापेक्षं फलं तु न किमपि लेभे ।
८. अनेनासौ सत्यमेव बलवता साध्यसेनाक्रान्तः । स निभृतमङ्गणं प्रविश्य घटमेकमुपसृत्य मन्दमवादीत्—। किं सुप्तोऽसि ? तदा कुम्भतः किमपि प्रतिवचनमनिशम्य, स शशङ्के—। यथालिपर्वणो हननस्य सर्वस्वापहरणस्य च कृते कृतो मे प्रबन्धः फलेन वञ्चितः—इति । अथ सर्वानपि चर्मकुम्भानेकैकश उपस्थाय, सर्वेऽप्येते मम सहचरा मृताः—इति स मेने । कथमेते मृताः स्युः—इति तु कुम्भेभ्यः सर्वतो धूमायमानस्य तैलस्य गन्धेन अन्तिमे च तैलस्याल्पीभावेन, तस्मै व्याख्यातम् ।
९. एवं तृतीयेऽप्यवसरे स्वप्रयोगं वन्ध्यतां गतम्, किं च विशेषतः सर्वानपि प्राणसमानात्मानुचरान्व्यापादितान्प्रक्ष्य, स शोकविह्वलः सन्रोषो-