सामग्री पर जाएँ

पृष्ठम्:चोरचत्वारिंशीकथा.djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३९

सा द्वितीयम्, ततस्तृतीयम्, ततोऽपि तुर्यम्, एवं क्रमेण सर्वानपि चर्मघटानाससाद । तदभ्यन्तराच्च यथापूर्वमेव प्रश्नं शुश्राव । स्वयमपि पूर्वोक्तमेवोत्तरं ददौ ।

 ४. केवलमन्तिमात्कुम्भात्स प्रश्नो नोत्थितः। ततस्तमेव स्नेहं धारयन्तम्, अन्यांस्तु निःस्नेहान्पुरुषान्धारयतो विमृश्य, सोन्निनाय—। यथा—एते पुरुषाः प्रच्छन्नघातका भवेयुः । तैलवणिग्ब्रुवश्चैतेषामधिष्ठाता । किं च सर्वेऽप्येते मत्स्वामिनं हत्वा तस्य सर्वस्वमपहर्तुं वाञ्छन्ति—इति । तं पुनश्चोरसंकल्पं विफलीकर्तुं सा तत्क्षणमुपायमचिन्तयदयोजयच्च । तदा सा स्वगतं बभाषे——

  निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः ।
  न हि नैकृतिकं हत्वा निकृत्या पापमाप्यते ॥ ३२ ॥

 ५. सा करगतं भाण्डं तत्कुम्भतैलेन सत्वरं पूरयित्वा महानसं निवृत्ता । तत्र बृहन्तमेकं कटाहं चुल्ल्या उपरि निधाय, तं च तैलेनापूर्य, तस्याधो विपुलं दारुदहनं संदीपयामास ।

 ६. यदा च तत्तैलं भृशं क्वथितं तदा सा त्रिचतुरा दासीः प्रबोध्य समागमय्य ताभिः कटाहं तं युक्त्या निभृतमङ्गणं प्रापयामास । ताश्च पुनःस्वापाय विससर्ज । अथ कटाहात्तस्मान्मनुजमारणपर्याप्तं क्वथदुष्णं तैलं प्रतिकुम्भं पातयामास । येन सर्वेऽपि ते गूढपुरुषा न मृतदग्धाः, किंतु दग्धमृता बभूवुः । यतस्तेषां कायैः प्रथमं दहनं पश्चान्मरणं प्राप्तम् । एवं तान्पुरुषान्व्यसून्विधाय सा रिक्तं तं कटाहं महानसं निनाय । द्वारं च संववार । तैलक्वथनार्थं निर्मितं महान्तमनलमपि सा तथा संचिक्षेप यथा स केवलं पेयं मन्दं क्वथद्धारयत् । ततः सा संवेष्टुमिव यान्ती दीपमपि