लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३६८

विकिस्रोतः तः
← अध्यायः ३६७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३६८
[[लेखकः :|]]
अध्यायः ३६९ →

श्रीनारायण उवाच-
एवमुक्तापि सावित्री न न्यवर्तत पद्मजे! ।
पुनराह यमं न्याय्यं पातिव्रत्यभरं वचः ।। १ ।।
त्यक्त्वा क्व यामि कान्तं च त्वां च ज्ञानार्णवं गुरुम् ।
जिज्ञासा जायते प्रष्टुं तन्निवृत्तिं कुरु प्रभो! ।। २ ।।
कां कां योनिं याति जीवः कर्मणा केन वा यम! ।
स्वर्गं वा नरकं वाऽपि मुक्तिर्वा केन कर्मणा ।। ३ ।।
रोग्यरोगी दीर्घजीवी केनाऽल्पायुश्च कर्मणा ।
सुखी दुःखी विकलांगः काणोऽन्धो बधिरस्तथा ।। ४ ।।
प्रमत्तः कृपणः क्षिप्तो लुब्धस्तथा च घातकः ।
जायते कर्मणा केन केन सिद्धीर्हि विन्दति ।। ५ ।।
स्वर्गभोगादिकं केन वैकुण्ठं चामृतं तथा ।
गोलोकं चाऽक्षरं केन सालोक्यादिचतुष्टयम् ।। ६ ।।
नरकं वा कतिविधं कः कियन्तं तु तिष्ठति ।
केन वा कर्मणा कीदृग्व्याधिर्भवति मानुषे ।। '७ ।।
वद सर्वं यथा वेत्सि ह्युपकारो भविष्यति ।
इति श्रुत्वा तु सावित्रीं यमः प्राह तदुत्तरम् ।। ८ ।।
विस्मितः स यमः प्राह कन्ये! षोडशवत्सरा ।
वयसा त्वं कुतस्त्वेतज्ज्ञानं लब्धवती सुते! ।। ९ ।।
मन्ये तां ब्रह्मणः पत्नीं सावित्रीं त्वां समागताम् ।
प्राप्तां तु भूभृता त्वश्वपतिना तपसा पुरा ।। 1.368.१० ।।
ज्ञानं ते पूर्वविदुषां योगिनां ज्ञानिनां यथा ।
यथा श्रीः श्रीपतेरंके लक्ष्मीर्नारायणोरसि ।। ११ ।।
यथा राधा च श्रीकृष्णे भवानी भववामगा ।
धर्मोरसि यथा मूर्तिः सावित्री ब्रह्मवक्षसि ।। १ २।।
कर्दमे देवहूतिश्च शतरूपा यथा मनौ ।
अदितिः कश्यपे यद्वद् वशिष्ठेऽरुन्धती यथा ।। १३ ।।
यथा शची महेन्द्रे च यथाऽहल्या तु गौतमे ।
यथा च रोहिणी चन्द्रे कामदेवे रतिर्यथा ।। १४।।
हुताशने यथा स्वाहा यथा स्वधा च पितृषु ।
यथा दिवाकरे संज्ञा यज्ञे च दक्षिणा यथा ।। १५।।
कृष्णनारायणे लक्ष्मीर्माणिकी पार्वती प्रभा ।
वरुणानी च वरुणे वराहे तु धरा यथा ।। १६।।
कार्तिके देवसेना चालक्ष्मीरुद्दालके यथा ।
यथा पतिव्रतालक्ष्मीः पत्नीव्रते च भूसुरे ।। १७।।
यथा च कंभरालक्ष्मीः कृष्णगोपालवक्षसि ।
यथा जया च ललिताऽक्षराधीशे हरौ तथा ।। १८।।
सौभाग्या सुप्रिया त्वं च भव सत्यवति प्रिये ।
इति तुभ्य वरो दत्तः प्रसन्नमनसा मया ।। १ ९।।
वृणु देवि ततोऽन्यच्चाऽपरमभीष्टमर्पये ।
एवं लक्ष्मि! यमं दृष्ट्वा प्रसन्नं प्राह सा सती ।।1.368.२०।।
सत्यवदौरसेनैव पुत्राणां शतकं मम ।
भवेदिति वृणोम्यत्र मच्छ्वशुरस्य चक्षुषी ।।२१ ।।
राज्यलाभो भवेच्चापि मे भ्रातृशतकं भवेत् ।
समतीते लक्षवर्षे ततः सत्यवता समम् ।। २२।।
हरेर्धाम प्रयास्यामि देहीमं सद्वरं प्रभो! ।
अन्यज्जिज्ञासितं सर्वं श्रोतुमिच्छामि तद्वद् ।।२३ ।।
यमः प्राह च तच्छ्रुत्वा सावित्रीं मानयन् बहु ।
सर्वं त्वदीप्सितं देवि! भविष्यति तथास्त्विति ।।२४।।
अन्यज्जिज्ञासितं वच्मि कर्मपाकं निशामय ।
यथा वेद्मि च तत्सर्वं कथयामि समासतः ।। २५ ।।
पृथ्व्यां शुभाऽशुभं कर्म भुंजते मानवास्त्विह ।
सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः ।।२६ ।।
नराश्च कर्मजनका न सर्वे समजीविनः ।
विशिष्टजीविनः सर्वे भुंजते कर्म योनिषु ।। २७।।
विशेषतो मानवाश्च भ्रमन्ति सर्वयोनिषु ।
शुभेन कर्मणा स्वर्गं निरयं त्वशुभेन वै ।।२८।।
राजसेन तु पुण्येन जायते मानवो भुवि ।
सात्त्विकपुण्यपु्ञ्जेन देवताः संभवन्ति वै । । २९। ।
तामसेन च पापेन राक्षसाद्याः पिशाचकाः ।
भूतप्रेताः पशवश्च पक्षिणो वृक्षवल्लयः । । 1.368.३० । ।
कीटाः पतंगाः सर्पाश्च सरीसृपाश्च जन्तवः ।
जायन्ते दुःखबहुलाश्चतुरशीतियोनिषु । । ३१ । ।
ऊर्ध्वं सत्त्वविशालाश्च मध्ये भवन्ति राजसाः ।
निकृष्टयोनिजाः सर्वे जायन्ते तामसा ह्यधः । ।३ २ । ।
पुण्येन जायते स्वर्गं नरकं पापमात्रतः ।
मुक्तिर्भक्त्या कृष्णनारायणे स्नेहप्रसेवया । । ३३ ।।
रोगी कुकर्मणा जीवश्चाऽरोगी शुभकर्मणा ।
दीर्घजीवी च क्षीणायुः सुखी दुःखी शुभाऽशुभात् । । ३४।।
अन्धादयश्चांगहीनाः कुत्सितेन तु कर्मणा ।
अन्यनेत्रविनेष्टाऽन्धः काणो भवति मानवः । । ३५ ।।
अन्यनिन्दाश्रुतिलुब्धो बधिरो जायते ध्रुवम् ।
अन्योद्वेगकरश्चात्र प्रमत्तो जायते सदा । । ३६ ।।
अन्यद्रव्यापहर्ता च दरिद्रो निर्धनो भवेत् ।
अतिघृणस्तिरस्कर्ता क्षिप्तो भवति सर्वथा । । ३७। ।
अप्राप्तभोगसम्पत्तिश्चान्यद्द्रव्यादि लुण्टति ।
जायतेऽयं घातकश्च लुब्धकश्चातिपापवान् ।। ३८ ।।
ऋणाऽनिवर्तको जन्म गृह्णात्येव न संशयः ।
सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्मणा ।। ३९ ।।
स्वर्गभोगादिकं सर्वं दानेन लभते जनः ।
विप्णुभक्त्या तु वैकुण्ठं विद्यया चामृतं पदम् । ।1.368.४० ।।
कृष्णभक्त्या तु गोलोकं परया विद्ययाऽक्षरम् ।
हरेः कृपया प्राप्येत सालोक्यादिचतुष्टयम् । ।४१ ।।
नरकं बहुधा प्रोक्तं कर्मणा बहुविस्तरात् ।
पापानां चाप्यसंख्यानां नरकाऽसंख्यताऽस्ति वै । ।४२ ।
यावत्पापं तत्र पापी तिष्ठते तल्लये तु न ।
पराऽऽन्तरप्रदाहेन परेषां दुःखदत्वतः ।।४३ ।
व्याधयोऽभिभवन्त्येनं परदुःखप्रदं जनम् ।
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि! । ।४४।।
दुर्लभा मानवी जातिः सर्वजातिषु भूस्तरे ।
विप्रः साधुश्च साध्व्यश्च श्रेष्ठास्ते भक्तिमज्जनाः । ।४५ ।।
सकामो भक्तिमान् कर्मयोगी भवति वै पुनः ।
निष्कामो भक्तिमान् ब्रह्ममुक्तः सम्पद्यते परे । ।४६ ।।
पुनरागमनं नास्ति तेषां निष्कामकर्मिणाम् ।
कृष्णभक्तास्तु गोलोकं यान्ति दिव्यद्विहस्तिनः । ।४७। ।
नारायणार्चका यान्ति वैकुण्ठं वै चतुःकराः ।
भूमभक्ता अमृताख्यं यान्ति सहस्रबाहवः ।।४८।।
तीर्थस्थिता जना यान्ति सत्यलोकं च तापसाः ।
सूर्यभक्ता रविं यान्ति कैलासं शिवभावुकाः ।।४९।।
यज्ञनिष्ठाः स्वर्गलोके शक्रत्वं वेष्टभावनाः ।
तत्तल्लोकं प्रयान्त्येव पुनरायान्ति कर्मणा ।।1.368.५०।।
हरिभक्तास्तु निष्कामा हरेर्लोकं प्रयान्ति हि ।
यस्मान्न पुनरावृत्तिरक्षरं तत्पदं परम् ।।५१ ।।
स्वधर्मरहिता भ्रष्टाचारा यान्त्यधमां गतिम् ।
नारकीं यातनां ते च भुंजते तिर्यगात्मसु ।।५२।।
स्वधर्मनिरताः सर्वं पृथ्व्यां सुफलभागिनः ।
स्वधर्मरहिताः सर्वे निरयान् यान्ति दारुणान् ।।५३।।
कन्यादाता चन्द्रलोकं यावदिन्द्राश्चतुर्दश ।
याति सालंकृतादानाद् द्विगुणं फलमुच्यते ।।५४।।
गव्यं च रजतं भार्यां वस्त्रं सस्यं फल जलम् ।
ये ददति ते प्रयान्ति तत्तत्स्मृद्धा दिवं ध्रुवाम् ।।५५।।
कालं तु सुचिरं स्थित्वा पृथ्वीमायान्ति वै पुनः ।
सुवर्णं गां च ताम्रादि ददत्यत्र तु ये जनाः ।।५६।।
वसन्ति सूर्यलोकं ते वर्षाणामयुतं सति! ।
भूमिं धान्यानि ददति श्वेतद्वीपे वसन्ति ते ।।५७।।
गृहदानप्रदाता च सुरलोकं हि विन्दति ।
गृहरेणुप्रमाणाब्दवासस्तत्र ध्रुवो मतः ।।५८।।
यस्मै यस्मै तु देवाय यो ददाति गृहं जनः ।
स याति तस्य लोकं तु रेणुमानाब्दमुत्तमम् ।।५९।।।
सौधे चतुर्गुणं पुण्यं पूर्ते शतगुणं फलम् ।
प्रकृष्टेऽष्टगुणं पुण्यं दिव्ये दिव्यफलं मतम् ।।1.368.६ ०।।
तडागकर्ता वर्षाणामयुतं जनलोकगः ।
वाप्यां फलं शतगुणं सेतुबन्धे सहस्रकम् ।।६ १ ।।
धनुश्चतुःसहस्रेण दैर्घ्यमानेन वापिका ।
दशवापीसमा कन्या फलं ददाति पात्रके ।।६ २।।
द्विगुणं च फलं तत्र यदि सालंकृतां ददेत् ।
वापीकूपतडागादेः पंकोद्धारे कृते फलम् ।।६३।।
अश्वत्थवृक्षसेवी च समारोपक इत्यपि ।
प्रयाति तपसो लोके वर्षाणामयुतं परम् ।।६४।।
पुष्पोद्यानप्रदो वर्षायुतं ध्रुवे वसेत् सति! ।
विमानदो विष्णुलोके वसेन्मन्वन्तरं परम् ।।६५।।
यानवाहनशिबिकारथदाता चतुर्गुणम् ।
फलं तु लभते पात्रे वैष्णवे सुखदं परम् ।।६६ ।।
दोलाद्यर्पयिता यायाद् विष्णुलोकं मन्वन्तरम् ।
राजमार्गं सौधयुक्तं करोति यः स ऐन्द्रकम् ।।६७।।
पद्ं वर्षायुतं भुक्त्वा पृथ्व्यां याति शुभं गृहम् ।
दत्तं दात्रे समायाति न दत्तं नोपतिष्ठति ।।६८।।
भुक्त्वा स्वर्गादिकं सौख्यं पुनर्भूमौ प्रयान्ति वै ।
लभेतोत्तमभवने जन्मोत्तमजनेष्विह ।।६९।।
विप्राश्च रक्षका यद्वोपार्जकाः सेवकाश्च वा ।
यथाकर्म भवन्त्येव भूमौ तद्वच्च सर्वदा ।।1.368.७०।।
अत्राऽन्यत्र कृतं सर्वं भोक्तव्यं भवति ध्रुवम् ।
इति ते कथितं सर्वं गच्छ सावित्रि! मा चिरम् ।। ७१ ।।
इत्युक्त्वा मौनमास्थाय यमश्चाग्रे ययौ शनैः ।
सावित्र्यपि शनैः पश्चाच्चचाल यमवाटगा ।।।७२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये कर्मानुरूपशुभाशुभस्थानगतिः, स्वस्याः पुत्रशतं श्वशुरस्य चक्षुषी, स्वस्या भ्रातृशतकं सत्यवतो लक्षाब्दायुरितिवरप्राप्तिश्चेत्यादिनिरूपणनामाऽष्टषष्ट्यधिकत्रिशततमोऽध्यायः ।।।३६८।।