नकाल रजतोवनाशहेत्वदर्शनेन शुक्तिकाज्ञानकालवृत्ति रजतं गृ-
ह्यते तथा च शुक्तित्वग्जतत्वयोरेकदैकत्र सत्त्वापत्या विरोधाद-
थांद्बाध्यबाधकभावापत्तेः ।
तदुक्तं वार्त्तिके-रजनं गृह्यमाणं हि चिरस्थायीति गृह्यते । भविष्यच्छुक्तिकाज्ञानकालं व्याप्नोति तेन तदिति । स्वप्नसंवाद- स्तु काकतालीयो न तु स्वाप्ने प्रमाणयितुमर्हति तादृशस्यैव बहुलं विसंवाददर्शनात् । विमता इत्याद्यनुमानस्य देशकालनिमित्ता- भावेन कालात्ययापदिष्टत्वात् । न हि देहदेश रथादयोऽवकाशं लभन्ते ।
न च"बहिः कुलायादमृतश्चरित्वा स ईयतेऽमृतो यत्र कामम्" इतिश्रु- त्यविरोधाय"अथ रथान् रथयौग" नियादिश्रुतेबहिर्देशे सृष्टौ तात्पर्य- कल्पने देशानुपपत्तिर्नास्तीति वाच्यम् । सुषुप्तस्य पुरुषस्य क्षणमा त्रेण योजनशतान्तरितदेशगमनागमनासम्भवेन कुरुष्वहमद्य शया- नो निद्रयाऽभिप्लुतः स्वप्ने पञ्चालानभिगतश्चास्मि प्रतिबुद्धचेति - त्यागमनवर्जितस्वप्नश्रवणेन स्वप्नकर्त्तुंः शयनदेशे एच पार्श्वस्थै- रुपलम्भेन विरोधात् । स यत्रतत्स्वप्नया चरतीत्युपक्रम्य स्वशरीरे यथाकामं परिवर्तते इति श्रुतिविरोधाञ्च वहिः कुलायादित्यादि- श्रुतेबहिरिव कुलायादित्येवं गौणतया व्याख्येयत्वात् । यो हि शरीरे वसन्नपि प्रयोजनं न करोति स वहिरिव शरीराद्भवती- त्यर्थः । कालसंवादोऽपि । यथा मुहूर्त्तमात्रवर्त्तिनि स्वप्ने कदा- चिद्बहुन्वर्षपूगानातिवाहयति । क्षणेन मनुष्योऽयं निर्धारितः क्षण- न वृक्ष इति करणे निवर्त्तने वा निमित्ताभावाञ्च करणोपसंहारात्त- द्ग्रहणाय चक्षुराद्यभावाञ्च ।
न चे प्रमुष्टतत्ताकस्मरणमेव स्वप्न इति वाच्यम् । अनधिग- ताबाधितस्वप्नदर्शनात् । स्वप्न स्वशिरोछेदनमद्राक्षमित्याद्यनुभ-