तस्य-यतमानसंज्ञा व्यतिरकसंज्ञा एकेन्द्रियसंज्ञा-
विवेकस्य तद्धाने हान” मिति । यत्र गुणोऽत्र बुद्धिसत्वं तद्विवेका- न्मोक्ष इति तत्र स्थूलसूक्ष्मबुद्धिग्रहणात्प्रकृतेरपि ग्रहणं बोध्यम् । अन्यथा बुद्धिविवेकेऽपि तत्कारणीभूतप्रधानाभिमानसत्वेन पुनस्त दभियानसम्भवात् । किञ्च बुद्ध्यादिषु पुरुषाणामभिमानोऽनादिर्व- क्तुं न शक्यते बुद्ध्यादीनां कार्यत्वात् । अतः कार्येष्वभिमानव्यव- स्थानियामकाकाङ्क्षायां कारणाभिमान एव नियामकतया सिद्ध्यति । लोके दृष्टत्वात् । कल्पनायाश्च दृष्टानुसारित्वात् । यथा लोके दृष्टः क्षेत्राभिमानात् क्षेत्रजन्यधान्यादिष्वाभिमानस्तन्निवृत्या च त- जन्याभिमाननिवृत्तिः । प्रधानाभिमानतद्वासनयोश्च बीजाङ्कुरवद- नादित्वान्न तदभिमानै नियामकान्तरापेक्षेति ॥ २ ॥
ननु वैराग्यं रागसामान्याभावः सचासम्भवी मोक्षे प्रतिकूलचे- त्याशङ्कानिरासाय यतमानसंज्ञा, व्यतिरेक संज्ञा, एकेन्द्रियसंज्ञा, व- शकारसंज्ञेति चतस्रः संज्ञा इत्यभियुक्तवचनमाश्रिय विशेषपर: त्वमाह---तस्येत्यादिना ।
ननु रागो नामेच्छाविशेषःसच सुखदुःखाभावान्यतरस्मिन्फले स्वाभाविकः सर्वजनीनस्तत्साधनेषु तदिच्छाधीनस्तथासति आत्य- न्तिकदुःखनिवृत्तितत्साधनयोरतिजघन्यानात्यन्तिकदुःखनिवृत्तित- साधनयोश्च वेदैन ज्ञातत्वेऽप्यत्यन्तोत्कृष्ठफलसाधनयोरेव रागोत्प- त्त्या सरसनीरसपदार्थयोस्तथैव ज्ञातयोर्र्नीरसे मन्दप्रज्ञस्य रागास- म्भवान्निकृष्टफलसाधनयोः रागासम्भवेन तन्निरासाय प्रयत्नो व्यर्थ इत्याशङ्क्य श्रवणसमानत्वेऽपि केषांचिज्जनानां नित्यकर्मोपा- सनाजनितान्त:करणशुद्धिशमदमादिसामग्न्यभावात्तन्निधरणास- भवात्प्रत्युत भगवता बहिर्मुखानामेवेन्द्रियाणां सर्जनात्तैर्बहिर्विषये एव सिर्धारणज्ञानसम्पादनेनात्युत्कृष्ठेऽप्रमाण्यबुदेरेवोत्पादनात् ।