सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

वृत्तिशून्यत्वे सति स्वात्माकारवृत्तिमादित्यर्थः । योगसेवया संप्रज्ञा- तसमाधिरूपयोगाभ्यासेन यत्र यस्मिन् मनःपरिणामे जाते सति चित्तं निरुद्धं सर्ववृत्तिशुन्यं सदुपरमते कमपि विषयं न गृह्णाति, यत्र च मनः परिणामे सति आत्मना शुद्धसत्वेन मनसैव व्यञ्ज- केनात्मानं प्रकृत्यादिभिन्नं सर्वसाक्षिणं पश्यन् पुरुष आत्मन्येव तुष्यति द्वैतभानप्रयुक्तदुःखेन रहितः । अनात्मविमुखीकृतेन मनसैव भातीति व्याख्येया।

 तदा सकळाचत्तवृत्तिनिरोधकाले । 'योगश्चित्तवृत्तिनिरोध' इति उपक्रमात् । द्रष्टुः स्वरूपेऽवस्थानं बुद्धिवृत्यनवच्छिन्नत्वं । इतरत्र कालान्तरे वृत्तिसारूप्यं बुद्धिवृत्त्यवच्छिन्नत्वमिति सूत्रार्थः ।

 यद्यपि बुद्धिरूपमन्तःकरणं शरीरमध्यस्थसुखादिरूपेण परि- णम्यमानत्वाच्छरीरमध्यस्थं तथापि हस्तपादाद्यवयवावच्छिन्न- सुखदुःखादिरूपेण परिणम्यमानत्वाच्छरीरावयवेषु सर्वेषु व्यापकं स्वीकार्यम् । घटाद्याकारेत्यस्य घटादिसन्निकृष्टेन्द्रियसंयुक्ता सती आकाराख्यविषयतासंबन्धेन घटादिसंबद्धचाक्षुषादिरूपा भवती- त्यर्थः । धटाद्यसंयुक्त भागावच्छेदेनैवेन्द्रिये तत्संयोग इति नैयायि- कास्तन्न विनिगमनाविरहादिन्द्रियघटादिसंयोगावच्छेदेनापि मनः संयोगसम्भवात् ।

 यदुक्तं विषयसंयुक्तेन्द्रियमनःसंयोगाख्येनासमवायिकारणेन पुरुषे घटादिविषयकसाक्षात्काररूपकार्यसम्भव इति । तदपि न, निरवयवे संयोगासम्भवात् । नहि स्वात्यन्ताभावसमानाधिकरण- रूपाव्याप्यवृत्तेर्निर्विभागे वृत्तिः सम्भवति । नचावच्छेदकभेदेन सा न विरुद्धैति वाच्यम् । निरवथवृत्तिधर्मेऽवच्छेद्याभावासमाना- धिकरणत्वविशिष्टावच्छेद्याधिकरणसंबद्धत्वरूपावच्छेदकत्वस्यासंभ- वात् । अवच्छेद्याधिकरणसंबद्धस्यैवावच्छेदकत्वे द्रव्यत्वादेरपि सं- योगविशेषावच्छेदकत्वप्रसङ्गात् । नच सावयवेऽपि संयोगो न स्यात् ।