शक्तिश्च कारणगतेयादावित्यर्थः । नच कारणस्याव्यक्तका- र्याश्रयत्वमव्यक्तत्वमिति कार्यस्याव्यक्तावस्था कारणमित्यनेन वि- रुद्ध्यत इति वाच्यम् । शक्तिशक्तिमतौरभेदेनाविरोधात् । विपक्षे- महत्तत्वादीनां कारणाभावे नित्यत्वापत्त्याऽऽत्मनोऽनिर्मोक्षप्रसङ्गो बाधकः । ततः परतया महत्वकारणाव्यक्तकारणतया प्रमाणाभा- वात् यथैतत्तथोक्त प्राक् ॥
यत्तुरत्नप्रभायां । किमिदं प्र्तिमितत्वं नतावद्देशवः परिछेदः पक्षान्तर्गताकाशे तस्याभावेन भागासिद्वेः । नापि कालतः परिछेद स्तत् । सांख्यैः कालस्यानङ्गीकारात् । अविद्यागुणसंसर्गौण सिद्ध- साधनाच्च । नापि वस्तुतः परिछेदः सत्वादीनां परस्परभिन्नत्वे सत्यपि साध्याभावेन व्यभिचारादिति । तन्न । आकाशस्य कार्यत- या कारणप्रधानादिव्याप्त्यसम्भवात् यथा कारणेन कार्यं व्याप्तं न तथा कार्येण कारणमपि व्याप्तं । नच गुणव्यक्तीनां परस्परस्मिन् भावसत्वेन परिछिन्नत्वापत्या साध्याभावेन व्यभिचार इति वा- च्यम् । दैशिकाभावप्रतियोगितावच्छेदकजातिमत्त्वस्यैवपरिमितत्व- पदेन विवक्षितत्वात् । अत एव नैयायिकमतरीत्यापि न भागासि- द्धिस्तैराकाशस्यावृत्तित्वाङ्गीकारात् । अतिरिक्तकालानङ्गीकारेऽपि सूर्यस्पन्दरूपकालेऽभिव्यक्तांशस्य सम्बन्धसत्वेऽपि साम्यावस्थारूप- सजातीयपरिणामे सम्बन्धाभावेन कालिकाभावप्रतियोगितावच्छेद- कजातिमत्वरूपकालिक परिच्छिन्नत्वरूपपरिमितत्वस्य सत्त्वेन द्विती- यदोषोऽपि न सम्भवति । न तृतीयदोषोऽपि तथा ऽनङ्गीकारात् । अत एव ने चतुर्थोऽपि संसर्गपूर्वकत्वस्यासाध्यत्वात् ।
नचाव्यक्तपूर्वकत्वसाधने ब्रह्मणाऽविद्यया वा अर्थान्तराप- त्तिस्तद्वारणाय संसर्गपूर्वकत्वं साधनीयं तत्सिद्धौ संसृष्टानेकानि सत्वरजस्तुमांसि सिद्ध्यन्ति, नतु ब्रह्माविद्याच एकस्मिन्संसर्गा- भावादिति वाच्यम् । ब्रह्मणोऽसङ्गतया सदृशयोरेव प्रकृति-