विकारभावाङ्गीकारेणाविद्यायाश्च मिथ्याज्ञानरूपबुद्धेगुणत्वेनोपा- दानत्वासम्भवेन ‘अविद्या पञ्च पूर्वेषां प्रादुर्भुता महात्मन' इत्यस्य विद्या या उत्पत्तिश्रवणेनानवस्थापत्या च सिद्ध्यसम्भवात् ॥
ननु "तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमे"त्यादिस्मृत्यामिध्या- ज्ञानरूपबुद्धेर्गुणत्वेनोपादानत्वाभावात्प्रधानस्यापि पुरुषादुत्पत्तिश्र- वणेन जगत्कारणत्वं न सम्भवति । नच पुरुषस्य नित्यतयाऽनवस्था- भावेनाविद्याद्वारकतया च कौटस्थ्य हान्यभावेन तस्मादज्ञानमूलोऽयं संसारः, पुरुषस्य ही' तिस्मृत्या च पुरुषस्यैव जगत्कारणत्वमास्त्वि- ति वाच्यम् । अविद्याया जन्यतया द्वारवासम्भवात् , इति चैन्न । मूलकारणत्वनिर्वाहायैकस्या गौणोप्तत्यावश्यकत्वे ‘संयोगलक्षणो- प्तत्तिः कथ्यते कर्मजानयो’ रिति कौर्मेप्रकृतिपुरुषयोर्गौणोप्तत्तिस्मर- यात् । अविद्यायाः कापि गौणोत्पर्यश्रवणाञ्च । अनादिवाक्यानां प्रवाहरूपेणैव व्याख्येयत्वेन तद्विरोधाभावाञ्च। ।
ननु न विद्याऽविद्या नज्ञानमज्ञानमिति विग्रहेण ज्ञानविरोध्या- वरणशक्तिमत्यविद्या तदेवाज्ञानं, तदेव विक्षेपशक्तिमन्माया पाचक- पाठकपुत्रपौत्रादिपदार्थतावच्छेदकानां भेदेऽपि चैत्रपदार्थवदत्रापि न परस्पर भेदः ‘मायाचाविद्याचस्वयमेवभवती’ तिश्रुतः। तस्याश्चा- नादित्वश्रवणान्नानवस्थापि तथा च ‘तरत्याविद्यां विततां हृदिय- स्मिन्निवेशिते' इत्यादिस्मृत्या तस्याः ज्ञाननाश्यत्वावश्यकत्वे सदृ-- शयोरेव प्रकृतिविकारभावनियमेऽपि तयाऽर्थंतरापत्तिस्तदवस्थैवेति चेन्न । तरणपदस्य नाशे शक्त्य भावेन तस्याः ज्ञाननाश्यत्वासं- भवे तयाऽर्थान्तरसम्भवात् । किञ्चाविद्याया द्रव्यत्वे शब्दमात्र भेदो गुणत्वेच तदाधारतया प्रकृतिसिद्धिः । तस्याः पुरुष एवाधो- रोऽस्त्विति तु नशङ्ख्यं तस्य निगुणत्वात् । नचद्रव्यगुणकर्मविलक्ष- त्व सा इति वाच्यम् । तादृग्पदार्थस्यापततेरेव जगदुपादानत्वा-