अलङ्कारमणिहारः (भागः ४)/सम्भवालङ्कारः (११८)

विकिस्रोतः तः

अथ संभवसरः (११८)


संभवोऽधिकसद्भावान्न्यूनस्थित्यवधारणम् ।

 शते पञ्चाशन्न्यायेनाधिकसद्भावे न्यूनसद्भावावधारणं संभवः ॥

 यथा--

 कति कति वा तव करुणा व्यतिकरतो नाप्नुवञ् श्रियं नित्याम् । तेनैव ममापि श्रीजाने सा संभवेन्न किं ब्रूयाः ॥ २१२७ ॥

 तेनैव करुणाव्यतिरेकेणैव । सा नित्यश्रीः ॥

 यथावा--

 कृष्णघन वर्षति त्वयि भुवनाभ्युदयाय दिव्यतमममृतम् । कथमिव न संभविष्यति चातकवृत्तेर्ममापि तल्लाभः ॥ २१२८ ॥

 उदाहरणद्वयेऽपि अधिकसद्भावान्न्यूनसद्भावावधारणरूपसंभवप्रमाणं प्रदर्शितम् ।

 यथावा--

 स्फुरतां भवजलधौ चिरमुरुतान्तानां हठात्तव स्मरताम् । परताराप्तौ सत्यां परितापं त्यज भवेत्तवाप्येषा ॥ २१२९ ।।

 अत्र--

ज्ञानतोऽज्ञानतो वाऽपि वासुदेवस्य कीर्तनात् ।
तत्सर्वं विलयं याति तोयस्थं लवणं यथा ॥


सकृत् स्मृतोऽपि गोविन्दो नृणां वर्षशतैश्चितम् ।
पापराशिं दहत्याशु तूलराशिमिवानलः ॥
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मृगैरिव ॥
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
यदृच्छयाऽपि संस्पृष्टो दहत्येव हुताशनः ॥

 इत्याद्युक्तप्रक्रियया श्रीहरिं हठात् स्मरतामपि संसारसागरपरतीराप्तौ संभवन्त्यां तवाप्येषा भवितेति संभवप्रमाणप्रदर्शनम् । परतारेत्यत्र ‘दिक्छब्देभ्यस्तीरस्य तारभावो वा वाच्यः' इति तीरशब्दस्य तारादेशः ॥

इत्यलंकारमणिहारे संभवसरोऽष्टादशोत्तरशततमः.