अथर्ववेदः/काण्डं ७/सूक्तम् ०१४
दिखावट
← सूक्तं ७.०१३ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०१४(७.०१३) अथर्वा (द्विषोवर्चोहर्तुकामः) |
सूक्तं ७.०१५ → |
दे. सूर्यः। अनुष्टुप् |
7.14(7.13)
यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे ।
एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे ॥१॥
यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ ।
उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे ॥२॥