अथर्ववेदः/काण्डं ७/सूक्तम् ०१५

विकिस्रोतः तः
← सूक्तं ७.०१४ अथर्ववेदः - काण्डं ७
सूक्तं ७.०१५(७.०१४)
अथर्वा ।
सूक्तं ७.०१६ →
दे. सविता । अनुष्टुप् , ३ त्रिष्टुप्, ४ जगती।

7.1५(7.1४)
अभि त्यं देवं सवितारमोण्योः कविक्रतुम् ।
अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ॥१॥
उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि ।
हिरण्यपाणिरमिमीत सुक्रतुः कृपात्स्वः ॥२॥
सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै ।
अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥३॥
दमूना देवः सविता वरेण्यो दधद्रत्नं पितृभ्य आयूंषि ।
पिबात्सोमं ममददेनमिष्टे परिज्मा चित्क्रमते अस्य धर्मणि ॥४॥