पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
226
अलङ्कारमणिहारे

 वैताने भुवि जनिता मा तारारामदमनयोज्याज्ञा मानातिगविभवनदी दासावनसारसरसनयनाभा भानायनसरसरसा अनवसादा आदीनवभविगतिनामा ज्ञा ज्यायः नमदमरा राता माता निजविभुना इता वै । इति पद्यद्वयपदच्छेदः । वैताने वितानसंबन्धिनि कर्मणीति यावत् । यज्ञियभूकर्षणावसरे इति भावः । भुवि भूमौ जनिता मा श्रीः इदं विशेष्यम् । तारारामदमनयोज्याज्ञा । तारायाः रामः रमणः वालीत्यर्थः । तस्य दमनः दण्डयिता भगवान् दाशरथिः तस्मिन् योज्या योजनीया आज्ञा शासनं यस्यास्सा तस्य तदाज्ञानुवर्तितायाश्श्रीरामायणे प्रसिद्धत्वात् । मानातिगविभवनदी मानातिगः वेलातीत: यो विभवः वैभवः तस्य नदी आश्रयभूतेति यावत् । भगवत्यां नदीत्वरूपणेनारूपितमपि विभवस्य सलिलत्वं प्रतीयत इत्येकदेशविवर्तिरूपकविशेषः । अतएव 'महाविभववाहिनी’ इति तन्नामसहस्रे पठ्यते । दासावनसारसरसनयनाभा दासानां किंकराणां अवने रक्षणे विषये सारा श्रेष्ठा सरसा सदया नयनाभा लोचनश्रीः यस्यास्तथोक्ता । भानायनसरसरसा भानस्य प्रकाशस्य भातेर्भावे ल्युट् । अयनं मार्गः आश्रय इति यावत् । तादृशो यस्सरः हारः तेन सरसा रमणीयेति यावत् । अनवसादा अविद्यमानः अवसादः कार्श्यं यस्यास्सा । आदीनवभविगतिनामा आदीनवः क्लेशः ‘आदीनवास्त्रवौ क्लेशे’ इत्यमरः । आदीनवयुक्तानां भविनां संसारिणां गतिः गम्यत इति गतिः कर्मणि क्तिन् । प्राप्यं नाम यस्यास्तथोक्ता तापत्रयदूषितसंसारिजनानुसंधेयनामधेयेति भावः । ज्ञा विदुषी सर्वज्ञेत्यर्थः । अत एव 'सर्वज्ञा कमलप्रभा’ इति तन्नामसु पठन्ति । ज्यायः इदमुत्तरत्रान्वेति । नमदमरा नमन्तः अमराः यां तथोक्ता । निजविभुना स्ववल्लभेन भगवता इता युक्ता ज्यायः श्रेयः अतिप्रशस्यमै