पद्मिनीपरिणयः/दशमोऽङ्कः
॥ अथ दशमोऽङ्कः ॥
( ततः प्रविशति सकाशस्तम्बशारदानन्दः ) ।
शार-वत्स! किं ब्रूमः भास्करकरम्पर्शस्फुटितपद्मलब्धस्य मणेर्महिमानम् ।
धृतेऽस्मिन् नश्यति तमः प्रसीदति मनः स्वयम् ।
अपरोक्षञ्च विज्ञानं जायते वर्धते धृतिः।
काश-स्वामिन्! कुतो मध्येमार्गमनुयायिनं रदयधरं विहाय योगमहिम्ना मामपि नयन्
कासारसमीपमागतोऽसेि ।
शार--वत्स! पथेि प्रसक्त्या स्मृत: कासार:। करस्थितमणिमहिम्ना साक्षाद्दृष्टः शोकवशाद्वैश्वनरं प्रविशन् । तत्सत्वरं समापृच्छ्य कामाच्छय तमुदयधग्मागतोऽस्मि । पश्य ।
कासार एष कष्टं सोढुमशक्तस्तनूजयोर्विरहम् ।
सप्तार्चिषं प्रवेष्टुं समिद्भिरिद्धं प्रदक्षिणीकुरुते ।।
काश-आर्य! निवार्यतां शीघ्रम् ।
शार-(द्रुतं निष्क्रम्य हस्ताकृष्टकासारः पुनः प्रविश्य) राजन्! अलमावेगेन ।
कासा-स्वामिन् ! न शक्ष्यामि सोढुमपत्यविश्लेषम् । तदनुगृह्यतां कृशानोरवगाहनाय ।
शार-आस्यताम् । तत्र यथाशक्यं प्रतिक्रियते ( इति तमासयन्नुपविशति ) ।
कासा-भगवन् ! किं जीवितेन मे ?
ज्ञातस्सुतो मृत्युमुखं प्रपिष्टो वत्सागतिं वेद न वेदनां ताम् ।
सहे सहेमाभवपुस्सुतायाः प्रियः कथं शक्यमिहेक्षितुं मे ॥
शार-काशस्तम्ब! मणिमिमं कलयन् करेऽवहितस्संस्मर कासारात्मजाम् ।(इति मणिं ददाति)
काश-(आदाय) स्वामिन् ! दृश्यते पद्मिनी क्वचन विप्रकृष्टप्रदेशे ।
शार-स देशः कीदृशः ?
संवीक्षे गहनं वनं पृथुनदीकूले शरारुव्रजै-
र्भीमं तत्र तु भैरवीगृहमदश्छद्मं पलालात्कैः ।
कासा-हा वत्से ! कथं वससि तत्र ?
103
शार--तत: ।
काश--
- पाषाणप्रतिमाऽस्ति तव कुसुमै रक्तै: कृतालङ्कृति-
- र्दंष्ट्राऽत्युग्रमुखी करालनयना शूलं दधाना करे ॥
- पाषाणप्रतिमाऽस्ति तव कुसुमै रक्तै: कृतालङ्कृति-
शार---तत: ।
काश-(सम्यगुन्मील्य) परित:
- इङ्गालतुल्यतनवः प्रसरत्स्फुलिङ्ग-
- नेत्रा जपारुणकचा बहवः पिशाचाः ।
- क्रव्याशया विपुलसृक्वविलोलजिह्वा
- भीमानि सन्तरलयन्ति मुहुर्मुखानि ॥
- इङ्गालतुल्यतनवः प्रसरत्स्फुलिङ्ग-
कासा वत्से !
- या मन्दिरालिन्दमहीषु गन्तुं
- रात्रावपट्वी हृदि कातरत्वात् ।
- धात्रीकरलम्बनमिच्छसि स्म
- धात्रीं कथं पश्यसि तामिहैका ॥
- या मन्दिरालिन्दमहीषु गन्तुं
शार-ब्रूहि । ततः ।
काश-तत्रास्ते कापि कापालिकी ।
शार-कीदृशी सा ?
काश-
- जटाभरं कुङ्कुमसन्निकाशं
- सा बिभ्रती काकनिभं कणलम् ।
- अस्थिस्रजञ्चामलभस्मदिग्ध-
- समस्तगात्री दहनोज्ज्वलाक्षी ॥
- जटाभरं कुङ्कुमसन्निकाशं
कासा- पापा सा किं कुरुते ?
काश-
- अजांस्तरुद्वन्द्वनिबद्धरज्जुप्रलम्बिनो दीनरवान् क्रमेण ।
- कृपां विना सा कृपणान् कृपाणहस्ता निकृत्योपचिनोति मांसम् ॥
- अजांस्तरुद्वन्द्वनिबद्धरज्जुप्रलम्बिनो दीनरवान् क्रमेण ।
अपि च ।
- कृकवाकुगणं पापा कूजन्तं हन्त सत्वरम् ।
- विपक्षीकृत्य हस्ताभ्यां नखैः कृन्तति तत्त्वचम् ॥
104
दुर्दर्शा सा भूमिः ।
- इतस्तत .........., घाराभारातिदारुणा ।
- सृगालाकृष्यमाणास्थिसिराचर्मौघदन्तुरा ॥
- पङ्क्त्या विन्यस्तमदिराकलशापातिमक्षिका ।
- अग्निज्वालाज्वलच्चुल्लीं परितः पतदोदना ॥
कासा-(कणौं पिधाय) अलमलम् ।
शार-कीदृशी पद्मिनी ?
काश— अरुणकुसुममालोद्बद्धकेशी कृशाङ्गी
- तरुणतरणिभासा वाससा संवृताङ्गी ।
- विवृतवदनभीमैरावृतान्ता पिशाचै-
- र्वृकनिकरपरीता हा कुरङ्गीव भीता ॥
- विवृतवदनभीमैरावृतान्ता पिशाचै-
कासा--वत्से ! जानन्नपि तवेदृशीं दशां वर्त्तेऽहमितिकर्तव्यतामूढो मन्दभाग्यः ।
शार-तत: ।
काश-अद्य तत्र न दृश्यते कापालिकी !
कासा--वत्समानेतुं गता स्यात् ।
काश-तथैव । उभावपि दृश्येते ।
शार-कथम् ?
काश-
- नेिगलितचरणः स पृष्ठभागे दृढतरयोजितबद्धबाहुयुग्मः ।
- करतलधृतखड्गया हिमान्या भवति पुराद्बहिराशु नीयमानः ॥
- नेिगलितचरणः स पृष्ठभागे दृढतरयोजितबद्धबाहुयुग्मः ।
कासा--- यदि मुक्तबन्धः स्याद्विक्रमेत वत्सः । को मोचयेत् ?
शार--(स्व) भगवती पद्मालया (प्र) ततः ।
काश-- भगिनीपार्श्वं नीतोऽसौ वध्यवेषं प्रापितः ।
कासा-—किं ब्रुवाते परस्परम् ?
काश-–
- पुत्रयोरावयोरेतां प्राप्तयोर्युगपद्दशाम् ।
- पित्रोर्विजानतीरग्नौ पतनात् का परा गतिः ॥ इति वदतः ।
105
- सालावनीरुहसुदीर्घभुजस्सुवर्ण-
- मालां वहन्गलतले धवलाम्बरश्रीः ॥
- सालावनीरुहसुदीर्घभुजस्सुवर्ण-
शार---किं करोति रामकिङ्करोऽयम् ?
काश-प्रणमति भार्गवीम् ।
कासा-भगवतीं रमां हरिवीरं च विलोक्य वत्सौ किमाचरतः?
काश-- तौ तयोर्नयनगोचरतां न याताविति मन्ये ।
कासा-कीदृशी कापालिका ?
काशा--उद्धृतखढ्ड्गा स्तब्धेव तिष्ठति।
शार--( स्वगतम् ) भगवत्या स्तम्भितभुजा स्यात्पाषण्डा । ( प्रकाशम् ) तत: !
काश-किमपि सल्लपतो हरिवल्लभाप्लवङ्गप्रमल्लौ ।
कासा–कथमिव ?
काश-तन्नावगम्यते ।
शार--ततस्ततः ।
काशा--उभौ तिरोदधाते ।
कासा-–हा ! कथमेतत् !
( प्रविश्य पटाक्षेपेणारुणः)
- हा! कष्टम्
- स्वपितरमवगम्यायान्तमानन्तुकामः
- सविनयमुपगन्तुं यावदायात्सखा मे ।
- सरभसमनुयातः केनचित्क्वापि नित्ये
- केिमहममिदधामि च्छन्नरूपः स हर्ता ॥
- स्वपितरमवगम्यायान्तमानन्तुकामः
- हा! कष्टम्
कासा-कथमुपरतं जगद्भागधेयम् ? (इति मूर्च्छितः पतति) । ( प्रविश्य दौवारिकः) परिहारभूमिं गओ उदअधरो । (प्रतिहारभूमिं गत उद्रयधरः) । शार--प्रवेशय ।
दौवा--( निष्क्रम्य तेन सह प्रविश्य) हदो हदो । (इत इतः) ।
108
उद-कुतस्सर्वे ग्लानवदनाः ?
शार-उपविश्यताम् ।
उद--(उपविश्य ) हा मूर्च्छितस्सम्बन्धी !
- भ्रुजङ्गमेन किं इष्टः किं पपौ गरलं स्वयम् ।
- भीतोऽपवादात्कस्माच्चिद्धतो वा येन केनचित् ॥
शार--नैतत्सर्वम् ।
उद--(स्वगतम्) किंमन्यत्कारणम् ?
शार--(तीर्थेन प्रोक्ष्य) समाश्वसिहि ।
कासा--(उत्थाय)
- कापालिकाकरवशं तनया गतेति
- काल्यै बलिश्च भवितेति न मेऽद्य शोकः ।
- जामातरि प्रथिततेजसि हन्त शान्ते
- विश्वस्तया तनुजयाऽत्र किमस्ति सौख्यम् ॥
- कापालिकाकरवशं तनया गतेति
उद-( स्वगतम् ) कष्टं नष्टो मे सुतः प्रणङ्क्ष्यति स्नुषेति च ज्ञायते । (पकाशं) हा वत्स !
- अस्त्राणि योगिनृपतेरधिगम्य भूय-
- स्तेजस्विनं सुगुणदारसुशोभिपार्श्वम् ।
- दृष्ट्वा भवन्तमधुना मुदमाप्तुकामः
- प्राप्तोऽस्मि भद्र वेिधिना निहतो गतिः का ॥
- अस्त्राणि योगिनृपतेरधिगम्य भूय-
तदहं प्रविशामि हुताशम् ।
कासा--ज्वलित एवानल: । तदावां प्रवेिशावः । (इति उभौ वह्निमभिगच्छतः) ।
शार--(निवार्य) क्षण सह्मताम् । (इति तावासयति )॥ उद--वत्स भास्कर !
- भाग्येन केनापि कृतेन पूर्वं लभ्यः सुतः साधुगुणोपपन्नः।
- तस्यानुरूपा च वधूरनल्पैः पुण्यैर्विना स्यात्कथमत्र लभ्या ॥
109
- इति चिन्तामहाम्भोधेरुत्तीर्णोऽपि कथञ्चन ।
- अद्य मज्जामि शोकाब्धैो दुस्तरे विरहात्तयोः ॥
काश--अद्भुतमेतत् ।
शार--कथम् ।
काश--
- दुग्धोऽपि यत्र जीमूतः पद्मिनीमहिमाग्निना ।
- नासूत् जहाति दूरे तन्नगराद्भास्करः स्थितः ॥
शार--कीदृशः ।
काश--
- नीयमान: कपीन्द्रेण स्तूयमानः सुरैरपि ।
- समुद्रेणेव परिखासलिलेन निरुध्यते ॥
उदयधरकासारौ--उच्छ्वसतीव नौ जीवितम् ।
शार---तत: ।
काश -
- श्रियो महिम्ना निस्सीम्ना हरयः परदन्तिनाम् ।
- सुहृदो भास्करस्याद्य साहाय्यं कर्तुमुद्यताः ॥
शार--किमाचरन्ति ते ?
- तरुभिर्गिरिभिस्तत्र सेतुं कञ्चिद् वितन्वते ।
- स पादस्पर्शनाद्यातो भास्करस्य पवित्रताम् ॥
उद्-- ततः ।
काश-
- भास्करेण समाक्रान्ते कलभः स्वपदेऽधुना ।
- सन्तप्तः शरणं याति हिमानीं वनवासिनीम् ॥
काश--ततः।
काश - सा तु प्रार्थयते भैरवीम् ।
- सा भैरवी कञ्चिदहिं स्वदेहादुत्पाद्य भीमं व्यसृजत्सकोपम् ।
- ग्रस्तस्तदीपेन फणान्तरेण स भास्करोऽभृत्पिहित प्रकाशः ॥
कासा--हा ! महाहिना प्रस्ते भास्करे जगदिदं तमसावृत्तमास्ते । ततः ।
110
काश--केनापि निमित्तेन पत्युः विपदं जानती पद्मिनी विलपस्येवम् ।
उद--कथमिव ।
काश--
- दयित यदि तवाहं जीवतः स्यां परेता
- सकलगुणनिधेः स्युः साधवो धर्मदाराः ।
- भवति मम परेते हन्त वैधव्यदुःखं
- निरवधि मरणान्तं स्यादिति स्पष्टमेव ॥
- दयित यदि तवाहं जीवतः स्यां परेता
हिमानी मायया नेिर्माय भास्करशिर इव पातयति पद्मिन्या अग्रतः। भद्रा हिमानीं प्रति वदत्येवम् । “अयि कापालिके पातय मे कण्ठे स्वङ्गलताम्, यया मम भर्तुः कण्ठं कृत्तवत्यसि ।
कासा--युक्तमेव ।
उद-हा स्नुषे ! किं ब्रवीमि तव सौजन्यम् ?
काश--पद्मिनी प्रार्थयते पद्मालयाम् । ‘ अम्ब मह्यं सौमङ्गल्यभिक्षां देही"ति । आश्चर्यम् ।
- पक्षोद्भूतसमीरवेगधरणीप्रोद्यद्रजोव्यावृतं
- कुर्वन्व्योमतलं चलक्षितिधरस्फूर्जत्तनुश्रीरसौ ।
- तार्क्ष्यो राजति तत्क्षणं स भुजगो नष्टः प्रहृष्टाऽधुना
- पक्षोद्भूतसमीरवेगधरणीप्रोद्यद्रजोव्यावृतं
कासा-को वा देवो न प्रसीदति पद्माभक्तजनस्य ?
उदय--ततः । काश-
- ज्ञात्वा वल्लभमेतमस्तविपदं भव्यैर्निमितैः स्वयम् ।।
(सर्वे हर्षं नाटयन्ति ) ।।
काश --भूयः प्रमादः ।
शार-- कथम् ?
काश-
- अत्युग्रलोचनविनिर्गतकोपजाश्रु-
- जम्बालितापनितलाः पवितीक्ष्णदंष्ट्राः। ।
- आवृण्वते पलभुजो भुजधार्यमाण-
- भीमायुधाः सपदि भास्करमुच्चघोषाः ॥
- अत्युग्रलोचनविनिर्गतकोपजाश्रु-
शारः--ततः ।
111
काश-
- लाङ्गूलान्तोज्ज्वलतरमणीकिङ्किणीशोभिघण्टा-
- ध्वानेनासाविह मुखरयन् हन्त दिक्चक्रवालम् ।
- गर्जन्नद्रिं लघु करतले धारयन् रत्नसानो-
- र्बिभ्रत्कान्तिं लसति हनुमान् विक्रमं स्वं विवृण्वन् ।।
- लाङ्गूलान्तोज्ज्वलतरमणीकिङ्किणीशोभिघण्टा-
विक्रममाणे पवमानात्मजे पूर्वमशोकवनमिव भग्नैः पादपैस्समरतलं पलाशनैः पतितैर्दुर्गमं भवति ॥
शार--तत: ।
काश--पद्मिनीधर्माग्निना दग्धोऽपि जीमूत: भैरव्याप्यायित ओजायते ।
कासा--किमेतत् ?
काश--
- भास्करे तेजसां राशौ परितो गाः प्रवर्षति ।
- प्राप्तवान् पातकी सद्यो जीमूतो नामशेषताम्॥
शार-
- पतिव्रतानां माहात्म्यं को वा वर्णयितुं पटुः ।
- पद्मिनीप्रतिमास्पर्शादपि पापो हृतोऽभवत् ।।
कासा--स्वामिन् ! प्रभावो भास्करस्य खलु तादृश: ।
शार-- यदि पद्मिन्यां नापराध्यति जीमूतः दुश्शक एव भास्करेण तत्संहारः । भास्करस्य प्रभावः पद्मिनीमूलक एव । उक्तं हेि श्रीमद्रामायणे---“ अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ” इति ।
उद-भास्करस्य प्रतापमहिमाऽपि शारदानन्दादेव ।
शार-अलमपकृतेन । ज्ञातव्या खलु पद्मिनीप्रवृत्तिः । काशस्त.. ! ब्रूहि ततः ।
काश--हा ! क्षिपति पाषण्डा पद्मिनीकण्ठे खढ्गम् ।
उदयघरकासारौ -–(उत्थायभिधावतः पावकम्) ।
शार---(निवार्य) ततः ।
काशः-हर्षं नाटयित्वा ।
- यावद्गले क्षिपति सा करवालमुग्रं
- पापा दरद्युतिहरे रभसात्कृशाङ्ग्याः ।
- यावद्गले क्षिपति सा करवालमुग्रं
112
- तावद्गतस्सकुतुकं सहसैव तत्र
- तां भास्करः प्रियतमामपसार्य धत्ते ॥
- तावद्गतस्सकुतुकं सहसैव तत्र
शार-अम्ब पद्मे ! पद्मिनीमवसि स्म भास्करमुपनीय । (इत्यञ्जलिं बध्नाति )। (उदयधरकासारौ शारदानन्दपादयोः पततः ) ।।
शार-
- मातस्सरोजसदने मरणात्स्वकीय-
- लोकस्य पालनमिदं तव नैव चित्रम् ।
- दारिद्यमत्र मरणादतिरिच्यमानं
- तूर्णं व्यपोह्म परिपालयसि स्वभक्तम् ॥
- कलयसि भक्तिं दघतां महदैश्वर्यं मधुद्विषो दयिते ।
- परमां भक्तिं चरणे दत्सं वहतान्तु मोक्षसाम्राज्यम् ॥
- मातस्सरोजसदने मरणात्स्वकीय-
तत: ।
काश--
- ओजायितेऽधुना कामं भास्करे पद्मिनीपतौ ।
- हिमानी खड्गमुत्सृज्य यत्र क्वापि निलीयते ।।
पलायन्ते पिशाचाः ।
कासा--आश्वस्ताः स्मः ।
काश--अहो महान् प्रमाद: । (सर्वे ससम्भ्रमम्) ।
शार--कथमिव ।
काश--
- अट्टहासयुता शूलपट्टसायुधधारिणी ।
- भैरवी पद्मिनीयुक्तं भास्करं तं जिघांसति ॥
शारदानन्दं विनाऽन्ये मूर्च्छन्ति ।
शार-सर्वान् मन्त्रपूतजलेन प्रोक्षयति । (उत्थाय सर्वे) । किं वा भविष्यति ।
शार-तत: ।
काश--
- कृताट्टहासां दरहासिवक्त्रा शूलं दधानां दधती सरोजम् ।
- रक्तेक्षणामेणविलोचनैषा तां वीक्ष्य लक्ष्मीरिह हुङ्करोति ॥
- केकयेव शिखण्डिन्या हुंकृत्या केवलं श्रियः ।
- उरगी भैरवी भीता वीतदर्पाऽद्य वेपते ॥
113
शर--तत: । काश--
- शूलं निधाय पुरतो मधुवैरिपत्न्या:
- सा भैरवी क्षितितले प्रणिपत्य भूयः ।
- प्राह प्रसीद भगवत्यपराधमम्ब
- सोढ्वा नियुङ्क्ष्व करणीयविधाविहेति ॥
- शूलं निधाय पुरतो मधुवैरिपत्न्या:
नियुङ्क्ते देवी ।
शार-कथमिव ।
काश-
- आरोप्य भक्तान् मम दिव्ययान भूतैर्महद्धिर्विरजःपदव्या ।
- समेन वेगेन पदं तदीयं नीत्या सुहृद्भिः सह योजयेति ।
- अङ्गीकृत्य निदेशं तमुत्तमाङ्गेन भैरवी ।
- नतेन वदनं देव्या: पश्यन्त्यपसरत्यनु ।
शार--तत:।
काश–पद्मिनी स्तौति पद्मालयम् ।
कासा-कथम् ।
काश - भयं नाशयन्तीं स्वयं ध्यायतां स्वं
- लयं भावयन्ती नयं प्रोज्झतां द्राक् ।
- वर्थं त्वां नताः स्म: प्रियं वर्धयन्तीं
- श्रियं पाहि नित्यं जर्यं देहेि मातः।
- हरेः प्रेयसीं तां करेऽब्जं दधानां
- हरेन्द्रादिवन्द्यामरे चित्त नित्यम् ।
- स्मरेयं स्वरक्षाध्वरे दीक्षिता हि
- स्फुरेन्नः सुखं श्रीररेर्नैव भीतिः ।
- नमस्ते समस्तेश्वरि श्रीर्मुरारे-
- रुरस्याप्तवासे स्थिरोद्यद्विलासे ।
- उपासे त्वदंघ्रिं लसन्मन्दहासे
- कृपानीरराशे सतां पूरिताशे ॥
- लयं भावयन्ती नयं प्रोज्झतां द्राक् ।
114
शार-- तत: ।
काश--श्रूयते वियति कापि कोमला वाणी ।
कासा–कथमिव
काश-
- वत्से तवेव विपदां नाशः पुष्टिश्च संपदाम् ।
- भूयादिदं ते चरितं वदतां शृण्वतामपि ॥ इति ।
शार--किं ब्रूमहे प्रसादमहिमानं मधुसूदनशुद्धान्तपरिवृढायाः! ।
कासा-तत: |
काश--
- स्नातानामप्सु पुण्यासु तेषामाविरभूत्पुरः ।
- अम्बरं विविधं भूपानिकरश्चानुलेपनम् ॥
शार-किं दुर्लभं लब्धलक्ष्मीकटाक्षणाम् ।
कासा--भगवन्!
- कासारस्य च पद्मिन्या भाम्करस्यापि वा प्रभो ।
- भास्वरत्वे भवानेव निदानं पङ्कभञ्जने ॥
शार---तत: ।
काश-प्रविशन्ति सर्वे नगरम् । परिवृण्वते नगररक्षकाश्शस्त्रपाणयः सक्रोधमेतान्।
उद—किमेतद्धृदयशल्यम् ?
कासा-आर्य ! नैतद्दुश्शकं भवत्तनुजस्य शस्त्रपाणीनां तापोत्पादनम् ।
काश-
- प्रसरति दिशि भास्करप्रतापं बहुलतरे तरुसञ्चये निलीनः ।
- स्वजन इति नृपात्मजो विदित्वा द्रुततरमेति रणाय कोपभीमः ॥
उद-निरायुधो ध्वजिनीरहितश्च वत्सः कथं जेष्यति शस्त्रपाणीन् योधान् ।
कासा-निसर्गसिद्धतेजसां किमुपकरणेन ?
शार--तत: ।
काश--हन्त भास्करस्य विजृगम्भणम् ।
- तां भास्करे तपति दुस्सहतेजसि स्वां
- सेनां क्षणेन कलभः पृथुकुन्तदन्तः ।
- तां भास्करे तपति दुस्सहतेजसि स्वां
- तां पद्मिनीं सरभसं कुमुदाकरं च
उदयधरकासारौ---( ससम्भ्रमं ) ततस्ततः।
काशा---हन्तुं गतः
कासा--हा !
शार–भण भण ।
- हत इवाजनि भास्करेण ॥
काश--तत: |
शार---क्वचिन्निलीने कळभे विस्मिताः शुद्धान्तवृद्धाङ्गनाः पुरस्कृत्य कुमुदाकरस्य कौमुदीं शरणं गता उदयधरात्मजम् ।
कासा--(सहर्षं ) ततः ।
काश–
- यथा राजति ते पुत्री भास्करं प्राय भास्वरम् ।
- तथा कासारराजेन्द्र तव पुत्रश्व कौमुदीम् ॥
शार---तत: ।
काश-
- जम्बत्योर्युगलं श्रीमद्व्योमयानं समुन्नतम् ।
- आरुह्यानीयते व्योम्नि भृतैर्नात्यन्तवेगिभिः ॥
- श्रीमद्विभीषणनिदेशपरोपनीतं तत् पुष्पकं समधिरुह्य यथा स रामः ।
- तद्वद्विमानमतितुङ्गमिदं प्रमोदादारुह्य भास्कर इह प्रतिभाति पत्न्या ॥
- कासारसूनुना सख्या सुग्रीवेणैव राघवः ।
- प्रदर्शयंस्तं तं देशं भास्करो वक्ति वल्लभाम् ॥
कासा-उत्कण्ठते द्रष्टुं वत्सान् मनः । कियद्दूरे वर्तन्ते ?
काश–दूरं नाम । दृश्यते नगरगोपुरोपरि व्योमयानम् ।
(प्रविश्य पटाक्षेपेण कञ्चुकी) ।
- देव्व्, गअणादो ओदरइ कोपि विमणराओ विज्जूपहापुंजी विअ । (देव! गगनादवतरति कोऽपि विमानराजो विद्युत्प्रभापुञ्ज इव) ।
(सर्वे सहर्षमुत्तिष्ठन्ति)
शार-(सर्वान् पुरस्कृत्य परिक्रामति ) ।
- ( प्रविशन्ति भास्करादयः विमानादस्पृष्टभूतलादवतरणं नाटयन्तः । प्रणमन्ति
- शारदानन्दादीन् गुरून् । सर्वे यथोचितमाशिषं प्रयुञ्जते ) ।
116
शार--उपविशामः कल्याणगृहे । (सर्वे परिक्रम्य समुपविशन्ति) ।
शार--(उदयधरं प्रति )
- निर्जित्य शत्रूनिव भूमिकन्यां रामः स कासारसुतां सुतस्तं ।
- सम्प्राप्तवानत्र विशेष एष प्राप्नोति जीवन्तमिह स्वतातम् ॥
उद--(शारदानन्दं प्रति )
- कौशिकेन यथा रामः प्रापितस्सकलां श्रियम् ।
- परिपन्थितमोहन्ता भवता भास्करस्तथा ॥
शार-वत्स, काशस्तम्ब !
- जीमूतो व्यरमन्निहत्य विमतं मत्तेभकं दुर्मदः
- कासारोऽप्यपकल्मषः स्वतनुजां दृष्ट्वा प्रियं भास्करम् ।
- लब्ध्वोल्लासिमुखाम्बुजां तनुभुवं प्राप्यामलां कैमुदीं
- संहृष्टञ्च स भास्करस्य जनको हृष्टः स्वपुत्रोदयात् ॥
उदयधरकामारौ-- भगवन् ! सर्वं भद्रं तव प्रभावात् ।
शार--भगवत्या इन्दिरायाः प्रसादात् ।
- यस्याः प्रसादमुपलभ्य शशाङ्कचूडश्चापं पिनाकामधिगम्य विराजतीति।
- सङ्कीर्त्यते स्फुटमृचा कमलालया सा केनामरेण न भवेदभिवन्दनीया ॥
- अस्ये..नेति वाक्येन यजुषा स्तूयतेतराम्।
- या देवीं तां विना लोकमाता स्यात् का परा श्रुता ॥
- गन्धद्वारेति मन्त्रेण सर्वभूतेश्वरीति या
- निगद्यते विना लक्ष्मीं का परा भूतरक्षिणी ॥
- आविर्भूते दिनकरकुले रामनाम्ना स्वनाथे
- भृमेर्जाता जनकसदने सञ्चरन्ती सखीभिः ।
- आविर्भूते दिनकरकुले रामनाम्ना स्वनाथे
- नीत्वा कञ्चित्समयमथ तं नाथमेव प्रपन्ना
- हेतुर्दुष्टाशरकुललये याऽभवत्तां प्रपद्ये ॥
- नीत्वा कञ्चित्समयमथ तं नाथमेव प्रपन्ना
- सोढ्वापि माता स्तनवेदनां वा स्तन्यं यथा पाययति स्वबा..
- सीता तथा सोढनिशाचरार्त्तिर्लोकं दशास्यक्षयप्रहर्षमाध्वीम् ॥
किमधिकेन–
- न सुरो वा नरो वा स्यात् श्रीमान् यत्करुणां विना
- भक्तावनपरां देवीं धन्या: स्मरतां नता वयम् ॥
117
कासा--सत्यमाह भवान्।
उद-
- जगद्रक्षाविनिद्राभ्यां पितृभ्यां जगतां स्वयम् ।
- जानकीरघुनाथाभ्यां नित्यमस्तु सुमङ्गलम् ।।
भास्करः--
- दुष्टराक्षसशिक्षैकदक्षायाक्षविनाशिने ।
- साधुरक्षाधुरीणाय मङ्गलं वायुसूनवे ॥
कुमु-
- पक्षविक्षेपविध्वस्तसर्पदर्पाय पक्षिणाम् ।
- सार्वभौमाय महते सर्वदास्तु सुमङ्गलम् ॥
अरुणः-- (भास्करं परिष्वजते) ।
मिलिन्दः-- ( कुमुदाकरं अलिङ्गति ) ।
(सर्वे सौत्सुक्यं परस्परमीक्षन्ते ) ।
शार-भास्कर ! किं ते भूयः प्रियमुपहरामि ।
भास्करः - -
- सन्मार्गे स्थिरतां गतोऽहमनिशं भो: पावनेऽस्मिन्कला-
- पूर्णोऽनुग्रहतस्तवाविकलतो ध्वस्तास्समस्तापदः ।
- निर्वेिघ्नोऽजनि पद्मिनीपरिणयो योगीन्द्रसंसेवित
- स्वामिन् धैर्यजिताक्ष नाथ भगवन्सर्वं मयाप्तं शुभम् ॥
तथापीदमस्तु :--- (भरतवाक्यम् ) ।
- भूदेवा विलसन्तु सद्विधिरता नित्यं लसत्कीर्तयो
- राजान: पृथिवीसुरार्चनपरा जीवन्तु सन्तश्चिरम् ।
- नन्दन्त्वत्र पराः प्रजाश्च पशवो भूरस्तु सस्योज्ज्वला
- भक्तिस्सुन्दरराजसूरिहृदये रामस्य संवर्धताम् ॥
इति पद्मिनीपरिणये दशमोऽङ्कः ।
॥रामदूताय नमः ।।
॥ शुभमस्तु ॥
1. सन्मार्गं इति । अनेन पद्येन भास्करस्य शारदानन्दं प्रति कथनं, करैः श्रीहनूमन्तं प्रति प्रार्थनञ्च प्रतिपाद्यते । .. शारदानन्द । पावने पवन स...... सन्मार्गे वियति परिशुद्धं साधुपथे च अन्यत्र । पावनं पवनकुमार ! धैर्येण जितं................. च ॥
118