सामग्री पर जाएँ

पद्मिनीपरिणयः/षष्ठोऽङ्कः

विकिस्रोतः तः
               




   

॥ अथ षष्ठोऽङ्कः ॥

(ततः प्रविशति भास्करोऽरुणश्च)

भास्कर:-सखे ! कीदृशो विवाहवृत्तान्तः ?

अरुणः-वयस्य, किं कथयामि मन्दभाग्यः ।

सद्यः स्वेन वितीर्णभूषणगणालङ्कारिताङ्गीं वधूं
जीमूतः कमलालयं प्रति गतः शीघ्रं समानीयताम् ।
कासारेण विवाहमण्डपसदोमध्यस्थितेनादरात्
सन्दत्तां प्रतिगृह्य तुष्टहृदयः प्राप्तेप्सितार्थोऽभवत् ॥

भा-सखे ! किं निर्वर्तितपरिणयाऽऽसीत् पद्मिनी ?

अरु-न केवलं निर्वर्तितपरिणया । परन्तु भर्तारमनुगता प्रायासीच्च ।

भा-हा प्रेयसि ! क्व प्रयातासि । (इति मूर्च्छति) ।

अरु-सखे ! समाश्वसिहि (इति पटान्तेन वीजयति) ।

भा-(नेत्रे उन्मील्य) सखे ! किं सत्यं पद्मिन्या जीमूतवशङ्गतत्वम् ?

अरु-(स्वगतम्) हा । कष्टम् ।

भूयोऽपि जीमूतवशं गतेति श्रुत्वा वचो मे स्वयमेव मूर्च्छेत् ।
असत्यमेषाऽन्यवशा न चेति ब्रवीमि वाक्यं किमहं विगर्ह्यम् ॥
(प्रकाशम्) सखे ! किं परकलत्रविषयविचारेण ।

भास्क-अपि सत्यं जीमूतवशं गता पद्मिनी ?

अरु-कथमसत्यं ब्रवीमि ।

भा--

कुशिकसुत इव स्याच्छारदानन्द एष
क्षितिदुहितुरिव श्रीरामभद्रेण योगे ।
घटन इह मया द्राक् साधु कासारपुत्र्या
इति मम हृदि क्लृप्तिर्व्यर्थतां प्रापदेवम् ॥
हा विधे ! मम दयमान इव पूर्वस्यां रजन्यां योजयन् वल्लभां मया सद्यो विघाट्य परां शुचं प्रापयसि माम् । (कण्ठान्मालिकामवमुच्य दर्शयन्) सखे !
एषा तदीयकरसारसयुग्ममुक्ता कण्ठे मया सकुतुकं सहसा गृहीता ।
माला मनोहरतमा समनन्दयन्मामेतावदन्तमधुना हृदयं दुनोति ॥

 (इति मालां भूमौ निक्षिप्य, भूयोऽप्यादाय) अथ मालिके !। मन्दभागाऽसि । यतः

तस्याः करौ किसलयप्रतिमौ विहाय
मां प्राप्तवत्यसि पुनः कृशपुण्यमत्र ।
एतां भवान् कथमपीह सखे नयंस्तां
पुण्यं भजेत यदियं बत खिद्यतीव ॥

अरु-सखे ! कुतस्त्वमेवमधीरोऽसि ?

भा-कुतो मे धीरता । पुरा मुरारिमहिलासमाराधनसमये

सा स्वस्तिकासनमवाप्य कराब्जतर्ज-
न्यङ्गुष्ठलग्नकुसुमा दरमीलिताक्षी ।
उत्तानिताकृतिलता चलिताधरेष
त्तत्तादृशी मम पुरः किल वर्ततेऽद्य ॥

सखे ! नूनं प्रिया मम सरोरुहलोचना सा

जीमूतनीचवशमेत्य पुनर्न जीवेत् ।
स्मृत्वैव मामियमसून् क्षणतो विमुञ्चेत्
तां संस्मरन्नहमपि प्रजहामि जीवम् ॥

 (इति पतति) ।

अरु–(उत्थाप्य) अलमावेगेन ।

भा-

यस्याः कटाक्षलहरीव मधुव्रतालिः
यस्याः कचावलिरिवाभिनवाम्बुनीली ।
यस्या इवाननमहर्मुखबुद्धमब्जं
द्रक्ष्यामि तां पुनरहं क्व सखे ! सखेलाम् ॥

अरु–वयस्य !

भवादृशाश्च स्वप्रेमभाजनं जनमात्मना ।
संस्मृत्य मुक्तधैर्याश्चेत्किं पुनः प्राकृता भुवि ॥ भास्क-सखे !
स्वप्रेमपात्रमिति यत्तदहं विसोढुं शक्नोमि सारसदृशीतरहस्तभाजि ।
साऽवोचदन्यवशगा यदि सद्य एव प्राणांस्त्यजेयमिति यत्तदसह्यमास्ते ॥

 सखे ! कुतो भवति दृष्टं शुभनिमित्तमपि विफलम् ?

स्पृशति मयि गात्रयष्टिं तस्याः प्रथमं करेण कुतुकंब ।
न्यपतत्प्रदीप्तदीपादर्चिःपुष्पं क्षितौ शनैः सुशुभम् ॥

 हन्त ! मातः ! मधुसूदनप्रणयिनि !

याऽनन्यभक्तिरखिलेश्वरि ! कामिताप्त्यै
कारुण्यमेव भवदीयमियेष भूयः ।
तां पद्मिनीं विमतहस्तवशे निपात्य
पश्यन्त्यसून् विजहतीं सहसे कथं त्वम् ॥

जननि-

यस्मिन्प्रसीदसि जने त्रियुगप्रिये ! त्वं
तस्यापदेति विलयं समुदेति सम्पत् ।
इत्यत्र कोऽपि विशयो न भवत्प्रसाद-
प्राप्तिः किमल्पतपसाऽत्र जनेन लभ्या ॥
अम्ब ! प्रसीद मयि किञ्चिदिदं मदीयं
विज्ञापनं शृणु निरुन्धि भवत्तनूजम् ।
यो मां निहन्ति विशिखैः करुणाविहीनो
रन्ध्रं प्रतीक्ष्य निशितैरपि पुष्यरूपैः ॥

अरु–वयस्य ! समाश्वस्य मनो विनोदय क्रीडावनदर्शनेन ।

भास्क-सखे ! आरामरामणीयकं पश्यतो मम समेधते विरहानलः ।

तरुणतरुगणेषु द्योतमाना प्रसूना-
वलिरिह मदनस्य क्रूरबाणत्वमेत्य ।
हृदि मम निपतन्ती बाधते ज्यात्वमत्र
भ्रमदलिततिरेवोपैति हा निर्घृणस्य ॥ अथवा । चम्पककुसुमावलोकनेन हृदयं विनोदयामि । यदस्मिन् मधुपसञ्चाराभावात् निर्गुणता भवति । गुणसङ्गं विना शरस्योदञ्चनं न सिद्ध्यति खलु ! । (इति चम्पकमुपसृत्य) सखे ! हन्त
बाणा न मकरकेतोश्चम्पककुसुमानि विरहिलोकस्य ।
हृदयप्रदाहकानि ज्वलितानि महान्त्यलातचक्राणि ॥

अथवा !

भोश्चम्पक सखे हिंसा न युक्ता मयि ते यतः ।
मत्प्रियानासिकौपम्यं दधासि परदुर्लभम् ॥

अरु-(स्वगतम्) हन्त सखा । दशाननापहृतसीतावियुक्तस्य श्रीरामभद्रस्य दशां प्राप्तः ।

(प्रकाशम्) सखे ! कथं उन्मादावस्थां गतोऽसि ।

भास्क-

कुसुमशर नमस्ते तिग्मबाणप्रयोगा-
द्विरम परभृत त्वां नौमि मौनं भजस्व ।
मलयपवन मां त्वं मा स्पृश स्याः सुपुण्यो
मयि कथमतिदीने नास्ति वोऽत्रानुकम्पा ॥

अरु-वयस्य ! विपन्निकष एव पुरुषाणां मनोधृतिहेम परीक्ष्यते ।

भास्क-

[]अत्यन्तभीषणतमःक्षितिभृत्क्षणेन
यत्तेजसि स्फुरति दूरमुपैति कामम् ।
यस्याशनिप्रतिभयादपि भीर्न मेघात्
सोऽहं बिभेमि मदनस्य परं हि बाणात् ॥

इह हि !

सर्वं लोचनगोचरं भवति मे कल्पान्तकालोपमं
सर्वे सम्प्रति कर्णभागविषयाः संवर्त्तमेघारवाः ।
एवं तावदहो भवेन्न विशयो यावत्प्रियां नो दृशा
द्रक्ष्यामि श्रवणेन तन्मृदुगिरं श्रोष्यामि नाहं सखे ॥  सखे ! कुतः प्रेयस्या दर्शनमितः परम् ?
मत्कृते हरिणीनेत्रा प्राणान्मुन्ञ्चेन्न संशयः ।
तत्कृतेऽसून्न मोक्ष्यामि यदि स्यान्मे कृतघ्नता ॥

 तत् प्रवर्धय जातवेदसम् ।

अरु-अलं सम्भ्रमेण ।

भा--

यस्यां निवासमयते सततं दृढं श्री-
[]र्या लोकमङ्गलकरी भुवनत्रयस्य ।
तस्या विकासमिह काममकुर्वता मे
कोऽर्थो भवेदहह तेन महोदयेन ॥

अरु-- सखे ! सर्वथा रक्षद्भिः प्राणान् चिरादाप्यते हि श्रेयः ।

भा–सखे ! मा रौत्सीर्मम मरणम् । मारो हि समारोपयति मुहुर्ज्यां धनुषि मम वेधनाय । (इति मूर्च्छति) ।

अरु-(स्वगतम्) सखा कथञ्चिदपि समाश्वासनं नेतव्य इव भाति । किं कुर्मः ? (पुरो निरीक्ष्य) आगच्छति मधुव्रता द्रुतं किमर्थम् ?

मधुव्रता—(प्रविश्य) अय्य ! अरुण ! कुदो तुह वअस्सो मुच्छिओ । (आर्य ! अरुण ! कुतः तव वयस्यो मूर्च्छितः) ।

अरु-भद्रे ! कथमजानतीव सख्युर्मूर्च्छाकारणं पृच्छसि ?

मधु-जदि जाणेमि किं पुछिस्सं ? (यदि जानामि किं प्रक्ष्यामि)?

अरु-किमन्यत्कारणमस्य पद्मिनीविश्लेषं विना मूर्छायाम् ?

मधु-(स्व) एदे जहत्थं ण मुणंति । तदो पुणोऽपि से विरहवेअणं वद्धअंती तदो समएमि । (प्रकाशम्) अय्य ! एदं बोहेहि, समस्ससेमि । (एतौ यथार्थं न जानीत: । तत: पुनरपि अस्य विरहवेदनां वर्धयन्ती ततः शमयामि । (प्र) आर्य ! एतं बोधय, समाश्वासयामि । (अरुण: वस्त्रान्तेन वीजयन्)

अरु-सखे ! उतिष्ठ ।

भास्क-(उन्मील्य नेत्रे) भद्रे ! किं तव सखी भ्रमरिका पद्मिनीमनुगता ? मधु-को संसओ । कहं पदुमिणीए अणुगमणं विणा भमरिआजीवणं ?। (कस्संशयः कथं पद्मिन्यनुगमनं विना भ्रमरिकाजीवनम् ?)।

भास्क-हा ! भ्रमरिकाऽपि द्रष्टुं न लभ्यते ।

अवीक्षमाणो दयिताममुष्याः
संसर्गसम्प्राप्तमनोज्ञशीलाम् ।
आलीमहं वा कलयामि पात्रीं
सङ्गेन मल्ल्या इव सौरभाढ्याम् ॥

मधु-अय्य ! कुदो परकळतं कामअन्तो एवं सोअसि ? (अर्य ! कुत: परकलत्रं कामयमान एवं शोचसि ? ।

भा-हा कष्टम् । पद्मिनी परकलत्रं संवृत्तेति । इतः परं किमस्ति मे शोच्यम् ।

मधु-अय्य ! अरुण ! महप्पाणं एआरिसाणं मणं परकळत्तं ण कामइस्सदि खु ।

(आर्य ! अरुण ! महात्मनामेतादृशानां मनः परकलत्रं न कामयिष्यते खलु ? ) ।

अरु-तत्त्वमाह भवती ।

भास्क-(स्व)

रे चित्त ? कस्मात्परदारकामं भजत्सदा पापमुपैषि मूढ !
यद्वा प्रवृत्तिस्तव निन्द्यकर्मण्येतावदन्तं न कदाचिदासीत् ॥

(इति मुखं नमयति) ।

अरु- भद्रे !

न हि कामयते साध्वीं परदारतया स्थिताम् ।
किन्तु तामात्मविश्लेषान्म्रियमाणां तु शोचति ॥

भास्क-भद्रे ! त्वं क्व प्रस्थिताऽसि ?

मधु-इदो एव्व (इत एव) ।

अरु–किन्निमित्तम् ?

मधु-अज्जो समस्सणिज्जोति महाराएण णियुतह्मि । (आर्यस्समाश्वासनीय इति महाराजेन नियुक्ताऽसि) ।

भास्क-कथमाश्वासनीयोऽहं सम्प्रत्येतां दशां प्रपन्नः । मधु-किं भट्टदारिआए भद्द्रे मिळन्ते सुहसूअणं णिमित्तं ण दिट्टम् ।

(किं भर्तृदारिकया भद्रे मिलति शुभसूचकं निमित्तं न दृष्टम् ?) ।

भास्क-भद्रे !

तां पश्यति प्रथममिन्दुमुखीं कृशाङ्गीं
मय्यादरान्मम हि दक्षिणमक्ष्यवल्गत् ।
तां संस्पृशत्यथ च बाहुरसव्य एष
निष्कारणं द्रुतमवेपत भूपकन्याम् ॥

मधु-तारिसं णिमित्तं कहं भवे विफलम् ? (तादृशं निमित्तं कथं भवेद्विफलम्?) ।

भास्क-कथमभूदिति भण ।

मधु-होदु । कहं वा भअवदीये ळच्छीए समाराहणं कामिदं ण करिस्सदि पदुमिणीए ।

(भवतु, कथं वा भगवत्या लक्ष्म्याः समाराधनं कामितं न करिष्यति पद्मिन्याः) ।

भास्क-कामितं नाकरोदिति ब्रूहि ।

मधु-तहा भणिदुं मह जीहा ण पसरइ । (तथा भणितुं मम जिह्वा न प्रसरति) ।

अरु-कुत: ?

मधु-तत्थ काळणं भवे । (तत्र कारणं भवेत् ) ।।

अरु–किं जानासि तत्र कारणम् ?

मधु-देवीए भत्ती एव्व काळणम् । (देव्या भक्तिरेव कारणम्) ।

भास्क-सखे ! किं वृथा विलम्बेन ? प्रवर्धय पावकम् ।

मधु-किं णिमित्तम् ? (किन्निमितम् ?)

भास्क-प्रवेशाय ।

मधु-कहिम् ? (क्व ?)

भास्क-अग्नौ ।

मधु-कस्स किदे । (कस्य कृते) ।

भास्क-शरीरत्यागाय ।

मधु-अतिरमणिज्जं सअळलोआणंदकारि तुह सरीरं ण खु उवेक्खणिज्जम् । (अतिरमणीयं सकललोकानन्दकारि तव शरीरं न खलूपेक्षणीयम् ) ।
भास्क-

यन्मे शरीरं दयिता स्मरन्ती सन्त्यजेदसून्
हृतकस्यास्य रक्षायां न फलं वेद्मि केिञ्चन ॥

मधु-तुह सरीरं सुमरंती सा ण पाणे मुंचे । (तव शरीरं स्मरन्ती सा न प्राणान्मुञ्चेत्) ।

भास्क-किं तस्या मयि प्रणयातिशयमजानतीव ब्रूषे ? ।

मधु-जाणेमि एव्व । (जानाम्येव) ।

भास्क-सखे ! मुधा मां धनञ्जयं प्रवेष्टुकामं रुन्धे मधुव्रता ।

मधु-अहं ण करिस्सं तुह धणञ्जअप्पवेसरोहणम् । (अहं न करिष्यामि तव धनञ्जय प्रवेशरोधनम्) ।

भास्क-भद्रे !

त्वं दयाभरसम्पूर्णहृदयाऽद्य निवेदय ।
इमं कासारराजाय प्रणामं चरमं मम ।

        (इत्यञ्जलिं धत्ते)

मधु–को णिदेसो पदुमिणीए' (को निदेशः पद्मिन्याः ?)

भास्क-भद्रे ! किमर्थं परलोकं प्राप्तायाः तस्य निदेशं कामयसे ?

मधु-जदि परळोअं ण पता ? (यदि परलोकं न प्राप्ता ?)

भास्क-

अलब्ध्वा मां प्रियं दैवात्परस्यापि वशं गता ।
यदि जीवति सा तस्यै निदेशोऽनुचितः खलु

मधु-(सस्मितम्) परवसं गआ जदि एव्व सा जीवइ ताए णिदेसो अणुइदो । (परवशङ्गता यद्येव सा जीवति तस्यै निदेशोऽनुचितः) ।

भास्क-(ससग्भ्रमम्) किं न परवशं गता ? ।

मधु-जदि पदुमिणी पिअं विणा परं पत्ता कहं कासारो जीवे ।

कहं वा भमरिआ । कहं वा अहं जीवेमि । (यदि पद्मिनी प्रियं विना परं प्राप्ता कथं कासारो जीवेत् ? कथं वा भ्रमरिका ? कथं वा अहं जीवामि ?) ।

अरु--सखे ! भद्राया वचनमस्माकं भ्रदं जनयतीव । तन्न सम्भ्रमः कार्यः ।

भास्क--सखे ! मम समाश्वासनोपायोऽयम् ।
मधु-जहत्थं कहिअ तुह समस्सासणिमित्तं एव्व आअदह्मि । (यथार्थं कथयित्वा तव समाश्वासनिमित्त्तमेवागताऽस्मि) ।
अरु-भद्रे ! किं यथार्थम् ?
मधु-मए समं तुह्मे आअदा जदि सअं एव्व विण्णादं भवे जहत्थं । (मया समं युवां आगतौ यदि, स्वयमेव विज्ञातं भवेद्यथार्थम्) ।
अरु-सखे ! सह भद्रया गत्वा तत्त्वं जानीवः ।
भास्क-न मे रोचते राजमन्दिरोपसरणम् ।
अरु-सखे ! या मधुव्रता भवतः पुरा पद्मिनीप्राप्तिमार्गं प्रादर्शयत्, सैवेदानीमपि भवदनुकूलतां प्राप्नोति । ततस्तदीयमनुसर्त्तव्यं वर्त्म ।
भास्क-यथा रोचते सख्ये । (इति परिक्रामति) ।
मधु-इदो इदो । (इत इत:) ।
भास्क-(अप) सखे ! केवलमबलावचनमनुसृत्य परिहास्यतां प्राप्तौ भवाव इति शङ्के
अरु-(अप) वयस्य ! मा शङ्किष्ठास्तथा ।

अघटितघटनायां वा घटितविघटने यदस्ति चातुर्यम्
अबलासु तन्मनुष्ये देवे वा नेति निश्चयान्मन्ये ॥


भास्क-भद्रे! केन निर्मितोऽयं धरान्तर्गृहप्रवेशाय पन्थाः ?
अरु-सखे !

पार्श्वद्वन्द्वोल्लासिहस्तावलम्बो
नात्यायामोत्तुङ्गसोपानपङ्क्तिः
अश्रान्त्याऽङ्घ्रिन्यासयोग्योऽतिहृद्यः
शक्यो बालैरप्ययं शीघ्रमेतुम् ॥

 (सर्वे महीगृहप्रवेशं नाटयन्ति) ।

भास्क--

मसृणविमलचित्रग्रावभित्ति प्रमृष्ट-
स्फटिकतलमशेषैर्वस्तुभिर्दर्शनीयैः
विलसितमतितुङ्गे चोर्ध्वभागे वितान-
प्रभृतिभिरभिरामं मण्डनैर्भूमिवेश्म

अपि च,

मणिदीपावलिध्वस्तध्यान्तमुच्चासनव्रजम्
अतिकोमलनैर्मल्यहृद्यशय्योपधानकम्

मधु-हळा ! भमरिके! इदो इदो । (हला भ्रमरिके इत इतः) ।

(प्रविश्य भ्रमरिका, उभौ प्रणमति)

भास्क-भद्रे ! अपि कुशलम् ?

मधु-(अपवार्य) हळा, किंवि विणोदं करिअ तदो जहत्थं कहेहि । (हला ! किमपि विनोदं कृत्वा ततो यथार्थं कथय) ।

भास्क-भद्रे, किमास्ते तव सखी कुशलिनी ?

भ्रम-जा होन्तं अळद्धवती, ताए कहं कुशळम् ? (या भवन्तमलब्धवती तस्याः कथं कुशलम् ?)

भास्क-अयि मधुव्रते ! पद्मिनीं दर्शयिष्यामीति त्वं मां कुतः प्रलोभितवत्यसि ?

मधु-अय्य ! जं सही भमरिआ कहिदवई ते अहं तुमं विण्णाविदवदी । (आर्य ! यत्सखी भ्रमरिका कथितवती तदहं त्वां विज्ञापितवती) ।

भास्क-भ्रमरिके, क्व पद्मिनी ?

भ्रम-जीमूअक्संगदेत्ति सव्वेहिं विदिअं खु । (जीमूतवशङ्गतेति सर्वैर्विदितं खलु) ।

भास्क-मधुव्रते, मां प्रातारयः ।

मधु-अय्य, ममस्सिं णो अवराहो । (आर्य ! मयि नो अपराधः) ।

भास्क–हा प्रियतमे ! (इति मूर्च्छति) ।

भ्रम-हळा ! पदुमिणि, इदो पविसिअ फरिसिहि पिअम् । (हला ! पद्मनि, इतः प्रविश्य स्पृश प्रियम्) ।

(प्रविश्य पद्मिनी अभिभृशति भास्करम्)

भ्रम-हळा ! तिरोहिआ होहि । (हला ! तिरोहिता भव) ।

पद्मि-(तिरोधत्ते भित्त्वन्तरे) ।

भास्क-(उन्मील्य) (स्व)कुतोऽहं हिमजलपूर्णसरसि मज्जानीव !

भ्रम-अय्य, अवि समस्सासं गओसि ? (आर्य ! अपि समाश्वासं गतोऽसि ?)। भास्क—भद्रे !

अत्र समाश्वासकरं वस्तु न पश्यामि मन्मथशरार्तेः ।
पुलकितमानन्देन स्विन्नं गात्रं च जायते कस्मात् ॥

अरु-(अप) सखे ! समाश्वसिहि ! मम जीवितहेतोस्तव जीवातुरत्रैव वर्तते ।

भास्क-( सामोदम्) भद्रे भ्रमरिके ! यदि दर्शयसि दृश्यां मम जीवितदानसुकृतं प्राप्स्यति ।

भ्रम-(सस्मितम्) (भास्करकरमवलम्ब्य)। इतो दृश्यताम् (इति पद्मिनीं दर्शयति)

अरु–सखे ! भद्रमस्तु (इति निष्क्रान्तः) ।

भास्क--

जीमूतान्निर्गता सेयं हन्त सौदामनीलता ।
दिष्ट्याऽद्य विलयं नैति जगदेकविलासिनी ॥

 भद्रे ! मधुव्रते ! भ्रमरिके !

युवाभ्यां प्रापिता साध्वी मम सन्तनुते मुदम् ।
श्रद्वया प्रज्ञया विद्या लम्भितेव विनिर्मला ॥

भ्रम-हळा ! अह्मो गच्छह्यो । (हला ! आवां गच्छावः) । (इति निष्क्रान्ते)

भास्क-

मातः कैटपवैरिप्रेयसि भवतीं विना परं दैवम् ।
अस्ति किममर्त्यवन्द्ये स्वस्ति विधातुं नृणामलं भजताम् ॥

 अयि जीवितसञ्जीविनि ! प्रदेहि परिष्वङ्गं मङ्गलाय मे ।

(इति पद्मिनीमालिङ्गन् निप्क्रान्त: )।


॥ इति पद्मिनीपरिणये षष्ठोऽङ्कः ॥

  1. भीषणतमः = अतिभीषणः । भीषणं तम एव. क्षितिभ्रत् यस्य, मे = मम, अघात् = व्यसनात् । मेघात् = घनाच्च ।
  2. आलोकमङ्गलकरी = दर्शनेन क्षेमङ्करी ।