पद्मिनीपरिणयः/पञ्चमोऽङ्कः

विकिस्रोतः तः
               




   

॥ अथ पञ्चमोऽङ्कः ॥

(ततः प्रविशति अरुण:)

अरुणः-फलिता मधुव्रतांश्रमवर्षिता मम प्रज्ञावल्लरी ।

यस्मिन्नेदीयसि मम वपुः खिन्नतां पूर्वमार्च्छ-
च्चेतीजन्मप्रसवशरसन्तप्यमानाखिलाङ्गे ।
सख्यौ तस्मिन् शुभविधिवत्पद्मिनीयागभाजि
प्राप्ते सम्प्रत्यहह सविधं स्नातव..र्विशामि ॥
(पुरो वीक्ष्य) आगच्छति मधुव्रता, एषा प्रष्टव्या समनन्तरवृत्तान्तम् ।

(प्रविश्य)

मधु-अय्य ! सफलं आसि तुह मह अ किञ्चम् ? (आर्य ! सफलमासीत् तव मम च कृत्यम्)

अरु-भद्रे ! कीदृशी जीमूतप्रवृत्तिः ।

मधु-आअदो हदओ वाउळीकुणइ कासारम् । (आगतो हृतको व्याकुली करोति कासारम्)

अरु-कासारः प्रयतते वा पद्मिनीं जीमूताय प्रदातुम् ।

मधु-किं करिस्सदि महप्पा । वाउळेण हिअएण विवाहकज्जे पवट्टन्तो विअ णिस्ससिइ पुणो पुणो । (किं करिष्यति महात्मा । व्याकुलेन हृदयेन विवाहकार्ये प्रवर्तमान इव निःश्वसिति पुनः पुनः)

अरु-पद्मिनी किमाचरति ?

मधु-हा देवि ळच्चि, मंगळदेवए, मं दइदेण मेळाअंती किं रख्खिस्ससि ? उद जीमूअकरे णिख्खिविअ मारइस्ससित्ति पळवंती अळंकिदापि मिळाणमुही कादव्वं अमुणंती वट्टइ । (हा देवि लक्ष्मि ! मङ्गलदेवते ! मां दयितेन मेलयन्ती किं रक्षिष्यसि ? उत जीमूतकरे निक्षिप्य मारयिष्यसीति प्रलपन्ती अलङ्कृताऽपि म्लानमुखी कर्तव्यमजानती वर्तते ।

अरु-जीमूतः कीदृशः ?

मधु-आसण्णे समए विवाहसरिसाळंकारतो गओ

हत्वे धारिजकोदुजी सहरिसं तो न.....।
संभारेइ णवव्वहूमणिकिदे चेळं मणीभूसणं
पुप्फं साहु हिमम्बुचंदणरसं कत्थूरिअं णूअणम् ॥
[असन्ने समये विवाहसदृशालङ्कारशोभां गतो
हस्ते धारितकौतुकस्सहर्षं स भद्रवेदीस्थितः ।
संभारयति नववधूमणिकृते चेलं मणीभूषणं
पुष्पं साधु हिमाम्बुचन्दनरसं कस्तूरिकां नूतनाम् ॥ ]

अरु-मा चिन्तय । भगवानस्ति शारदानन्दः पद्मिनीं भास्करेण योजयितुं समुत्सारयितुं जीमूतञ्च कृतसङ्कल्पः ।

मधु–सो वि एत्थ ण दीसइ । (सोऽप्यत्र न दृश्यते)

अरु-आगमिष्यति समये । आवां प्रयावः समीपं सुहृदोः । (इति निष्कान्तौ)

॥ मिश्रविष्कम्भः ॥

(ततः प्रविशति कासारो विदूषकश्च)

कासा-सखे ! सम्प्रत्यहं इतिकर्तव्यतामूढोऽस्मि ।

विदू-वअस्स ! मा चिंतेहि. मळीमसं तं जीमूदं उस्सारेमि दंडं उक्खिविअ ।

(वयस्य ! मा चिन्तय । मलीमसं तं जीमूतं उत्सारयामि दण्डमुत्क्षिप्य) ।

कासा-(विहस्य) सखे ! दण्डनिक्षेपेण कथं जीमूतोत्सारणम् ।

विदू-किं उण से उत्सारणकारि ? (किं पुनरस्योत्सारणकारि ?)

कासा-शारदानन्दागमनमेव !

विदू-अदि, सो सुमरणिज्जो होदा । (यदि, स स्मरणीयो भवता ।

कासा-स्वामिन् !

सन्मार्गस्थद्विजाधीशमित्रमण्डलशोभनम् ।[१]
कुर्वन्तं शारदानन्द भवन्तं संस्मराम्यहम् ॥'

(प्रविश्य )

शार –मा स्म चिन्तयः । अयमहमागतः । कासा-(प्रणम्य) सखे ! समुपाहर विष्टरम् ।

विदू–(विष्टरमुपहरति)

शार–(उपविश्य) राजन् ! अपि कुशलम् ?

कासा-कुशली भवामि, यतो भवन्तं पश्यामि ।

शार-कीदृशी प्रवृत्तिरिहत्या ।

कासा-प्रायो निरस्तकीलाल[२]भावेन धवलाकृतिः ।

पद्मिनीप्रेप्सया हन्त जीमूत इह बाधते ॥

शार-उपायेन जेतव्यः स पापः ।

विदू-अय्य! आअछइ पुरोवाओ । (आर्य ! आगच्छति पुरोवातः) ।

कासा-(अपवार्य) अहह ! पुरोवाते पुरो भवति चलतीव ममान्तरम् ।

(प्रविश्य )

पुरो-राजन् ! कुतोऽयं विलम्बः पद्मिन्या जीमूतस्य घटने ? ।

शार--न सम्भ्रमः कार्यः । समये नातिक्रमणीयः कर्तव्यताक्रमः ।

पुरो-उपदिश्यतां भवता सर्वमुपदेष्टव्यम् ।

शार-

अभ्यक्ता सुभगा कवोष्णसलिलस्नाता दुकूलं शुभं
धत्तां भृषितमूर्तिरस्तु महितैः सर्वैर्मणीभूषणैः ।
आलीभिः फलपुष्परत्नविलसत्पाणिद्वयाभिः सती
गत्वा सागरनन्दिनीगृहमियं क्षेमाय तां वन्दताम् ॥

पुरो-इदं निवेदयामि स्वामिने । (इति निष्क्रान्तः)

शार-भद्रे!

भेरीमृदङ्गपणवानकमङ्गलादि-
वादित्रवृन्दनिनदै: परिपूर्यतां द्यौः ।
मन्दं चरन्तु गणिकाश्चरणप्रवल्ग-
न्मञ्जीरनादविवशीकृतषिद्गचित्ताः ॥
किञ्च, तरवारिकरा वीरा धीराः कञ्चुकिनोऽधुना ।
रुन्धन्तु मन्दिरद्वारे इन्दिराया जनं द्रुतम् ॥

कासा-सखे ! तथा आदिश्यताम् ।

विदू-तह (तथा) (इति निष्क्रान्तः)

शार-भद्र ! वत्सो भक्तः कुमुदाकरः सह वयस्येन मिलिन्देन समायातु ।

कासा-कोऽत्रभोः । (प्रविश्य कञ्चुकी) एषोऽस्मि ।

कासाः-आहूयतां वत्सः सहवयस्यः ।

कञ्चु-तथा (इति निष्क्रान्तः) । (प्रविश्य विदूषकः) किदो णिदेसो । (कृतो निदेश:)

कासा-कथं सखे ?

विदू-गोवणिज्जं गूहिदुं जाणेमि अहम् । मुणइ मह घरिणी अ ।

(गोपनीयं गूहितुं जानाम्यहम् । जानाति मम गृहिणी च) ।

कासा-सखे ! यत्किञ्चिद्रहस्यं कथितं तव गृहिण्यां अवश्यं कथयिष्यसीति मन्ये ।

विदू-को संसओ । ताए ण कहिदं जदि णिद्दा मज्झ ण आअमिस्सइ ।

(कस्संशयः । तस्या न कथितं यदि निद्रा मम नागमिष्यति ।)

शार-(विहस्य) हन्त !

रहोवृत्ताम्बुपूरस्य गभीरान्मनसो नृणाम् ।
बहिर्निस्सृतये जज्ञे प्रणाली प्रमदाश्रुतिः ॥

कासा-सखे ! किं श्रुतं भगवतो वचः ।

विदू-मम घरिणी ण प्पमआ। (मम गृहीणी न प्रमदा)

कासा-किं पुमान् भार्या तव ?

विदू-रहस्सगोवणे परं पुरिसो एव्व मह घरिणी । (रहस्यगोपने परं पुरुष एव मम गृहिणी)

शार-राजन् ! विदूषकेण भार्यायामपि रहस्यमिदं गोपितं स्यात्तर्हि तिष्ठत्विह ।

विदू-तारिसपडिस्सुदेवि मोत्तूण एदं रहस्सं ण कहेमि । (तादृशप्रति तमपि मुक्तः एतद्रहस्यं न कथयामि !

(प्रविश्य)

कञ्चुकी-आगतः कृमारः सवयस्यः । (प्रविशति समिलिन्दः कुमुदाकरः । गुरुं प्रणमति) ।

शार-भवान् सवयस्यो निगूढं प्रविश्य पद्मालयालयं वर्तताम् । अहमत्रागत्य कर्तव्यमुपदेक्ष्यामि ।

कुमु-तथा (इति निष्कान्तः) ।

(नेपथ्ये वाद्यध्वनिः)

कासा-स्वामिन् ! प्रतिष्ठते वत्सा समुद्रतनयां वन्दितुमिति मन्ये ।

शार-आवामपि यावः । (इति परिक्रामतः) राजन् ! भद्रायां भगवतीवन्दनाय निर्यान्त्याम् ,

इयं प्रतिगृहाग्रभूप्रविलसन्मणीतोरणा
शिरोभवनजालकोन्मिलितसुन्दरीलोचना ।
जवप्रहृतदुन्दुभिध्वनिसमुच्चलद्बर्हिणा
झलज्झलितनूपुरोल्लसितवारयोषा पुरी ॥

कासा-आर्य ! वत्सा प्रविष्टा पङ्कजवासिनीभवनान्तःस्थलीम् । प्रविशावस्तावत् ।

शार-(कासारेण प्रवेशं नाटयति) (प्रविशति पद्मिनी भ्रमरिकया मिलिन्देन कुमुदाकरश्च )

(पद्मिनी गुरुं प्रणमति)

शार-वत्स कुतो म्लानवदनासि ?

पद्मि-भअवं! महं वअणस्स गळाणिकाळणं भवं किं ण वेत्ति ?

(भगवन् ! मम वदनस्य ग्लानिकारणं भवान् किं न वेत्ति ? )

शार-वेद्मि भद्रे ! भगवतीं मधुसूदनप्रणयिनीं उपासीनायाः तव का वा विपत्तिः न नश्यति ? का वा सम्पत्तिः न सम्पद्येत ?

पद्मि-स्वामिन् ! तत्तवेइणो तुह अणुग्गाहो एव्व अइलसेअसं णिआणम् ।

(स्वमिन् ! तत्त्ववेदिनस्तव अनुग्रह एव अखिलश्रेयसां निदानम्)

शार-वत्स मिलिन्द ! कुमुदाकर ! भवतोः प्रज्ञयैव वञ्चनीयो जीमूतः । ततो निखिलमनोरथस्य निरन्तरायमवाप्तये वन्दनीयाऽधिकं इन्दिराऽरविन्दमन्दिरा ।

कुमु-यथाऽऽज्ञापयत्यार्यः । (इत्युत्थाय देवीं प्रणम्य धृतमूर्धाञ्जलिः)

अम्ब रमे ! पालय मामम्बरवास्तव्यवन्दनीयपदे ।
शम्बररिपुजननि वशे तं परमं पू्रुषञ्च कुर्वाणे ॥
पाहि सरोरुहसदने पार्विकशरदिन्दुसंस्फुरद्वदने ।
मुक्तामणिसमरदने मधुरिपुहृदये सदोदयन्मदने ॥
प्रणतजनदैन्यदावप्रशमनपटुदृष्टिवृष्टिपीयूषे ।
मातस्समुद्रतनये नेतः परमस्मि दीनतां सोढा ॥
शरणं भवतीं प्राप्तः करुणापाङ्गेन दुरितनाशकरीम् ।
पुनरपि यदि खिन्नोऽहं कमले मम लम्बनं किमस्ति परम् ॥
अवलम्बे तव चरणावव लङ्कापुरपतिद्विपो महिषि ।
नवनवसुखं ददाने नवनपराणां नृणां जगज्जननि ॥
नाथे दिनकरवंशे जातं जाते समुद्ररशनायाः ।
रक्षोलतासिधेनो रक्षाम्ब स्वीयभक्तसुरधेनो
यदुकुलनाथीभूते ! दनुभवशत्रौ विदर्भराजस्य ।
अन्वयमतीव धन्यं तन्वति मातर्निधेहि कारुण्यम् ॥
श्रीस्त्वं यतोऽम्ब भवतीं श्रीमान् लब्ध्वा हरिस्ततो जयति ।
देवि त्वयैव कीर्त्या नाथो जगतां स कीर्तिमान् प्रथते ॥

यं जननि वीक्षितुं त्वं जनमिह दयया प्रवर्तसे देवि ।
स भवति भाजनमधनौ स्तुतेः कवीनां कुलीनतादिगुणैः ॥

शार-वत्स ! भवन्तं भक्तजनवत्सला भगवती द्रागवतीति निश्चिनोमि । तदिहागत्य क्रियतां करणीयम् ।

कुमु-उपदेष्टव्यमाचरणीयम् ।

शार-ऋजवोऽत्र विजेतव्या ऋजुमार्गेण धीमता ।

कुटिलाः कुटिलेनैव पथा द्राक् क्षेमकाङ्क्षिणा ॥
पुरा मुरारिः पुरुषः पुराणः सुरारिवर्गं खलु विप्रलब्धुम् ।
आदाय योषामणिवेषमीशः प्रादादशेषां वसुधां सुरेभ्यः ॥

विदू-मुणिअम् । कुमाळेण इथिआख्वं धरणिज्जम्; वंचणिज्जो जीमूओति ।

(ज्ञातम् ! कुमारेण स्त्रीरूपं धरणीयम् ! वञ्चनीयो जीमूत इति) !

कासा-सखे ! किं कथितं कुमारेण स्त्रीरूपं धार्यमिति गुरुणा ?

विदू-वअस्स ! केण उण धरणिज्जम्! (वयस्य, केन पुनर्धरणीयम् !)

कासा-भवतैवास्तु ।

विदू-जदि मह घरिणी पुरुसरूवं धारेदुं संमण्णइ अहं इत्थिआरूपं धरिस्सम् ।

(यदि मम गृहिणी पुरुषरूपं धारयितुं सम्मन्यते, अहं स्त्रीरूपं धारयिष्यामि )

(सर्वे हसन्ति ) (प्रविश्य)

कञ्चु-जीमूतप्रेषितानि भूषणानि वहन् कोऽपि प्रतिहारभूमिं गतः ।

कासा-(शारदानन्दमुखं पश्यति)

शार-तान्यादाय स विसृज्यताम् ।

कञ्चु–तथा (इति निष्क्रम्य, पुनः प्रविश्य) तानीमानि । (इति निधाय निष्क्रान्तः)

शार-वत्स ! विमुच्य धार्यमाणं पुरुषानुरूपं भूषणं भवता ध्रियतामिदं वधूभूषणतया प्रेषितं जीमूतेन । भ्रमरिकालङ्कारमखिलमादायालङ्क्रियतां मिलिन्दः ।

कुमु-(किमपि नम्रमुखस्तिष्ठति) ।

शार-वत्स ! किं चिन्तयसि ?

कासा-आर्य ! न जानीषे किमस्याशयम् ।

शार-जानद्भिरेवास्माभिः कौमुद्यै कुमुदाकरप्रतिच्छन्दप्रदर्शनपूर्वकं पद्मिनीरूपायाः प्रतिमायाः समाराधनरूपं किमपि व्रतमुपदिष्टम् ।

कासा-आर्य ! तदाराधनीयायाः प्रतिमाया: पद्यिनीरूपताहेतुः नावगम्यते ।

शार-अवगम्येत क्रमेण ।

कासा-(स्वगतम्) दुर्ज्ञेयमस्य हृदयम् । (प्रकाशम्) वत्स !

उचितेऽनुचिते वाऽपि महतां वचनादरात् ।
प्रविशन् पुरुषः क्वापि न स्खलेदिष्टलाभतः ॥

विदू-मिलिन्द ! तुमं पुढमं ओदारेहि आहरणाइ धारिआइम् ।

(मिलिन्द ! त्वं प्रथममवतारयाभरणानि धारितानि । (इति मिलिन्दाङ्गाद्भूषणं विमोचयति)

भ्रम-अज ! सअं एव्व अहं भूसणं ओदारेमि ! (आर्य ! स्वयमेवाहं भूषणमवतारयामि)

विदू-(भ्रमरिकाभरणमादाय मिलिन्देन सह निष्क्रान्तः) । (कुमुदाकरः अङ्गात्स्वभूषणमवतार्य समादाय च जीमूतप्रहितमाभरणं निष्क्रान्तः) ।

भ्रम-(कुमुदाकरमिलिन्दयोर्भूषणमादाय) हळा ! जानो । (हला ! यामः) (इति पद्मिनीं पाणौ गृहीत्वा निष्क्रान्ता) (प्रविश्य)

कञ्चु-सामात्यो जीमूतः प्रतिहारभूमिं गतः ।

शार-प्रवेश्यतां शीघ्रम् ।

कञ्चु-तथा (इति निष्क्रम्य-पुनः प्रविशति सामात्येन जीमूतेन सह)

जीमू-भोः ! पुरोवात ! विवाहवेलायां वन्दनीया खलु मयाऽप्यरविन्दाक्षसुन्दरी ।

पुरो-अथकिम् ।

कासा-(उत्थाय) आर्य ! जीमूत ! आसनमिदं समलङ्क्रियताम् ।

विदू-विमळं एदं जदि अय्येण जीमूअसहाराएण आरूडं भवे समळं किदम् ।

(विमलमेतत् यदि आर्येण जीमूतमहाराजेन आरूढं भवेत्समलं कृतम्) ।

जीमू-(उपविश्य) आर्य! शारदानन्द ! भवत्सन्निधिमहिम्ना भवाम्यहं विमलीभूतात्मा ।

विदू-(अपवार्य) वअस्स ! सारआणन्दसंणिहाणे इमस्स कह पदुमिणीळाहो भवे ।

(वयस्य ! शारदानन्दसन्निधाने अस्य कथं पद्मिनीलाभो भवेत्) ।

शार-आर्य ! वन्दस्व मातरं जगतां निर्विघातं पद्मिनीमनोरथस्य सिद्धये ।

जीमूतः-तथा । (इति वन्दते देवीम्)

विदू-(अपवार्य) वअस्स ! पदुमिणीए मणोरहसिद्धए वंदइ देविं जीमूओ ।

(वयस्य ! पद्मिन्या मनोरथसिद्ध्यै वन्दते देवीं जीमूत: ) ।

कासा-(अपवार्य) रक्षतु लक्ष्मीः वत्साम् ।

शार-भद्रा कुतो विलम्बते नूत्नाभरणधारणाय गता ।

विदू-अण्णारिसी खु भद्दाए दाणिं पसाहणरीई ।

(अन्यादृशी खलु भद्रायाः इदानीं प्रसाधनरीतिः)
(प्रविशति पद्मिनीवेषधारी कुमुदाकरः भ्रमरिकाकृतिधारिणा मिलिन्देन सह ।
कुमुदाकरवेषधारिणी पद्मिनी च मिलिन्दाकृतिधारिण्या भ्रमरिकया सह) ।

विदू-सरिसं एदाणं पसाहणं अपुव्वं सोहं उप्पादेइ । (सदृशमेतयोः प्रसाधनमपूर्वां शोभामुत्पादयति)

शार-सर्वं भवादृशानां प्रसादात् ।

विदू-णो अह्मारिसाणं पसादादो ईरिसं खेमं होइ । अविदु तुह्मारिसाणं एव्व ।

(नो अस्मादृशानां प्रसादादीदृशं क्षेमं भवति । अपितु युष्मादृशानामेव)

जीमू-(कुमुदाकरं वीक्ष्य सकुतुकं) (स्वगतम्)

अरुणा रदनाम्बरे मृगाक्षी धवलाभा हसिते सितेतराऽक्ष्णि ।
अकलङ्कसुवर्णवर्णगात्री लिखितेवात्मभुवा विभाति चित्रे ॥

(पद्मिनीं दृष्ट्वा, स्वगतम्)

स्यालं कोमलवपुषं सालङ्कारं निरीक्षमाणं माम् ।
आलिङ्गनप्रवृत्तं रुणध्दि पौंस्नं तदीयरूपमिह ॥

शार-आर्य ! जीमूत !

त्वद्दारभावं सम्प्राप्य कासारापत्यमीदृशम् ।
विचिन्तयाविनाशं त्वां प्रापयिष्यत्यसंशयम् ॥

कासा-

अपत्येन ममानेन भजन्नुपयमं भवान् ।
भुवनेऽस्मिन्नवाप्नोतु भूतानां सर्वनिष्कृतिम् ॥

शार-भद्र ! भर्तुः आयुष्मत्त्वादिगुणवृद्धये विवाहप्रभृति समाचरणीयं व्रतमस्मै तव कलत्राय मयोपदिष्टम् । तन्मासत्रयेण समाप्येत । तावदवधि व्रतभङ्गहेतुर्भवता न किमपि कार्यम् ।

जीमू-यथाऽऽज्ञापयति गुरुः ।

विद्-तदो भवं जहा ण रभिस्सइ जुवदीहिं पुव्वाहिं तह करिस्सदि महाराअस्स श्रवच्चम् ।

(ततो भवान् यथा न रंस्यते युवतिभिः पूर्वाभिः तथा करिष्यति महाराजस्यापत्यम्)

कासा-आर्य ! चिरात्पद्मिनीमवस्कन्दितुं कामयते मत्तेभकः । ततो भवता भवितव्यं समवहितेन तद्रक्षणे ।

जीमू-कः शक्नोति मदधीनामेनामवस्कन्दितुम् ?

विदू-अय्य ! सारआणंद ! पदुमिणिं, वुदाअरणकाळे पुरिसो परिसइ जदि मोहेण, किंअथ्थि खदी ? (आर्य ! शारदानन्द ! पद्मिनीं व्रताचरणकाले पुरुषः स्पृशति यदि मोहेन, किमस्ति क्षतिः ?

शार-तत्क्षणं स भस्मीभवेत् ।

विदू–अहो बुदमहिमा । (अहो व्रतमहिमा)

कासा-आर्य ! जीमूत ! नितरां नियतेन भवितव्यं भवता ।

जीमू-अवहितोऽस्मि ।

कासा-

यस्समाचरितो यस्य निर्विघ्नं श्रेयसे भवेत् ।
नियमो विहतः सोऽयं तस्य हन्त विपत्तये ॥

शार-तादृशो मन्त्रप्रभावः ।

पुरो-(स्वगतम्) कथं कामुकानां युवतिषु स्वस्य दोषोत्पत्तिविचारः ।

रघुपरिबृढपत्नीं स्वेन धर्मेण साध्वीं
पटुमपथनिविष्टं दग्धुमुच्चैर्विदित्वा ।
अपि दशवदना हा कामयामास जानन्
द्रुपदतनुभुवं तां कीचको वीरभार्याम् ॥
(प्रकाशं) भगवन् ! यदवशिष्टं तदप्युपदेष्टव्यम् ।

शार-किमधिकेन । स्वप्राणरक्षणे सर्वधा भवितव्यं नियतेन ।

कासा-

मया प्रदीयते तुभ्यमिदं मे कुलभूषणम् ।
स्त्रैणरूपं परं धत्ते कृत्येषु पुरुषो महान् ॥

विदू-तहा ताए सही भमरिआ वि । (तथा तस्याः सखी भ्रमरिकाऽपि)

शार-भोः कासार ! भवदीयमपत्यं सख्या विना क्षणमपि न वर्तेत खलु । ततो यातु तदनुगतमेव ।

कासा-कः संशयः ?

मिलिन्दः-कहं एदं विणा खणं वि जीविस्सम् । (कथमेतां विना क्षणमपि जीविष्यामि)

पद्मि-यथार्थमेतत् ।

कासा-भगवन् ! मम पद्मिनीव कुमुदाकरः, कुमुदाकर इव पद्मिनी प्रेमभाजनम् ।

शार-जानामि खलु !

विदू-वअस्स ! मा चिंतेहि । तुह सुओ पदुमिणीए करणिज्जं कज्जं वि णिव्वहइ ।

(वयस्य ! मा चिन्तय । तव सुतः पद्मिन्या करणीयं कार्यमपि निर्वहति) ।

(नेपथ्ये)

निर्णीतः शोभनोऽस्माभिर्मुहूर्त्तस्समुपस्थितः ।
क्व वधूः क्व वरो दाता क्व वृद्धः क्व पुरोहितः ? ॥

कासा-मौहूर्तिकाः शुभं समयं सूचयन्ति । तदविलम्बेन गच्छामो विवाहशालाम् ।

शार-उपपन्नम् । शोभनोऽस्मिन् समये किञ्चित् वत्सान्तिके वक्तव्यमुच्यते । (इति कुमुदाकरस्य कर्णे किमपि वदति) ।

कुमु-भअवं ! साहु तुए उपदिट्टम् अवगअम् । तहा आचरिस्सम् ।

(भगवन् ! साधु त्वया उपदिष्टमवगतम् । तथा आचरिष्यामि)।

(इति निष्क्रान्तास्सर्वे)

।। इति पञ्चमोऽङ्कः॥

  1. सन्मार्गः = साधुपथः, आकाशश्च । द्विजाधीशः = विप्रः, चन्द्रश्च । मित्रं =बन्धुः । मित्रः = सूर्यश्च ।
  2. कीलालम्- रक्तम्, जलञ्च ।