पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
239
रत्नावळीसरः (७७)

 यथावा--

 पुष्कलशाल्मलिजम्बूप्लक्षः क्रौञ्चकुशमेदुरः फणिशैलः । आक्रान्तमहाशाकस्सप्तद्वीपाधिको जयत्ययमेकः ॥ १८०३ ॥

 पुष्कलाः अतिशोभनाः 'पुष्कलस्स्यात्सत्तमश्चातिशोभने' इत्यमरः । शाल्मलिजम्बूप्लक्षाः वृक्षविशेषाः यस्मिन् सः । क्रौञ्चैः पक्षिविशेषैः कुशैः दर्भैः जलैर्वा मेदुरः आक्रान्ताः स्वाभोगेन व्याप्ताः महत्यः आशाः दिशः येन स तथोक्तः 'शेषाद्विभाषा' इति कप् 'के णः' इति प्राप्तस्य हृस्वस्य 'आपोऽन्यतरस्याम्' इति विकल्पितत्वादाशाशब्दस्य न हृस्वः । अयं फणिशैलः एक एव सप्तद्वीपाधिको जयति । अत्र 'जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कलाः' इति पुराणादिषु सहपठितस्य द्वीपसप्तकस्य क्रमातिक्रमेण न्यसनम् । सप्तद्वीपपदेन सूच्यार्थसूचनं च ॥

 यथावा--

 स्तुवताङ्गिरस्सदा मे मरीचिमत्त्रियुगसपुलहर्षकरम् । विपुलस्त्यानक्रतुभुग्वसिष्ठसुखदं तवाम्ब नयनयुगम् ॥ १८०४ ॥

 हे अम्ब ! मरीचिमत् अंशुमत् त्रियुगस्य भगवतः सपुलहर्षकरं सपुलकप्रमोदावहं 'पुलस्स्यात्पुलके पुंसि विपुले वाच्यलिङ्गकः' इति मेदिनी । विपुलं विशालं स्त्यानानां स्निग्धानां 'स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि' इति मेदिनी । क्रतुभुजां वसिष्ठाः वसीयांसः श्रेष्ठाः तेषां लोकपालानामित्यर्थः । वसुशब्दः प्रशस्तवाची । तत आतिशायनिके इष्ठनि वसिष्ठ इति रूपम् ।