पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
240
अलंकारमणिहारे

एतच्च ‘श्वसो वसीयश्श्रेयसः’ इति सूत्रे कौमुदीग्रन्थे स्पष्टम् । सुखदं ‘लोकेशेशविभूतीनां कारणं यन्निरीक्षणम्’ इत्युक्तेः । विपुलं च तत् स्त्यानक्रतुभुग्वसिष्ठसुखदं चेति विशेषणोभयपदकर्मधारयः । यद्वा विपुलं अतिशयितं स्त्यानं आलस्यं दुर्वासश्शापजनितस्वाराज्यभ्रंशप्रयुक्तमपाटवं यस्य स तथोक्तः क्रतुभुग्वसिष्ठः इन्द्रः तस्य सुखदमिति तव नयनयुगं मे मम गिरः सदा स्तुवता स्तुवन्तु । अत्र--

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं च महातेजास्सोऽसृज्जत्सप्त मानसान् ॥

 इति पुराणोक्तानां महर्षीणां किंचित्क्रमातिलङ्घनेन न्यसनम् ॥

 यथावा--

 यशसैष सार्वभौमेनैरावतकुमुदपुष्पदन्तरुचा ते । लोकोऽञ्जननायक सुप्रतीक वामन सुपुण्डरीकाक्ष सितः ॥ १८०५ ॥

 हे वामन ! स्वेच्छागृहीतवामनावतार । हे सुप्रतीक 'आ प्रणखात्सर्व एव सुवर्णः’ इत्युक्तप्रकारदिव्यमङ्गळविग्रह ! हे सुपुण्डरीकाक्ष ! शोभनं यत्पुण्डरीकं तदिव अक्षि यस्य तस्य संबुद्धिः । सुशब्देन गम्भीराम्भस्समुद्भूतसुमृष्टनाळरविकरविकसितत्वरूपः ‘तस्य यथा कप्यासम्’ इति श्रुतिस्थकप्यासशब्दार्थस्सर्वोऽपि संगृहीतः । अञ्जननायक अञ्जनाख्यगिरिनेतः ऐरावतः कुमुदपुष्पं दन्तः गजदन्तः तेषां रुगिव रुक् प्रभा यस्य तथोक्तेन सार्वभौमेन सर्वभूमौ विदितेन ते यशसा जगत् सितं शुभ्रमिति योजना । अत्र 'ऐरावतः पुण्डरीकः’ इत्युक्तानां दिग्गजानां क्रमातिलङ्घनम् ॥