पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथानुज्ञासरः (७३)


 अनुज्ञा सा गुणौत्सुक्याद्दोषस्याप्यर्थना यदि ।

 उत्कटगुणविशेषलालसया दोषत्वेन प्रख्यातस्यापि वस्तुनः प्रार्थनमनुज्ञालंकारः ॥

 यथावा--

 भवहर फणिशिखरीश्वर भवतात्तव विप्रकर्ष एव मम । स ह्यादरस्य कारणमनादरस्यैव सन्निकर्षस्तु ॥ १७२४ ॥

 अत्र श्रीवेंकटगिरिनाथविप्रकर्षो दोषः । तदभ्युपगमे हेतुरादरणकारणत्वं गुणः । स च सामान्येन विशेषसमर्थनरूपेणार्थान्तरन्यासेन दर्शितः ॥

 यथावा--

 तावकशैलेऽच्युत मे स्थावरता जङ्गमत्वमपि वाऽस्तु । किं मुक्तिदोऽसि न पुरा कोसलजनपदचराचराणां त्वम् ॥ १७२५ ॥

 अत्र तरुलतादिरूपस्थावरत्वेन वा भुजगविहगमृगादितिर्यग्जन्तुतया वा जन्मनः प्रार्थनं दोषः । तदाशासने तादृशरूपेण वेंकटाद्र्यवस्थानस्यापि मुक्तिहेतुत्वं गुणः । स च कोसलजनपदचराचरनिश्श्रेयसवितरणोदाहरणेन दर्शितः ॥

 यथावा--

 मा भूत्त्वय्यनुरागो मम चैद्यादेरिवास्तु वैरं वा । येन त्वय्यच्छिन्ना स्मृतिसन्ततिरच्युतावतिष्ठेत ॥