पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२०४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
192
अलङ्कारमणिहारे

 अत्र चैद्यादेरिव वक्तुः भगवद्विषयकवैररूपदोषाभ्यर्थनम विच्छिन्नतत्स्मृतिसंतानकारणत्वलक्षणगुणलालसयेति ध्येयम् ॥ अत्र 'द्वेषाच्चैद्यादयो नृपाः' इत्येतदनुसंधेयम् ॥

 यथावा--

 यत्र क्ववा निहाका तावकतीर्थे भवत्वसावात्मा । तावकयोगादच्युत का हानिस्स्यात्ततः प्रसव्यगतेः ॥ १७२७ ॥

 हे अच्युत ! असावात्मा अयं चेतनः यत्रक्ववा तावके तीर्थे स्वामिपुष्करिण्यादौ निहाका गोधिकाख्यो जलजन्तुविशेषः ‘निहाका गोधिका समे’ इत्यमरः भवतु । ततः निहाकात्वप्राप्तावपि तावकयोगेन त्वदीयध्यानेन त्वदीयानां त्वदीयेन वा संबन्धेन वा तन्महिम्नेति यावत् । प्रसव्यगतेः अनुकूलसद्गते: । ‘प्रसव्यं वाच्यलिङ्गं स्यात् प्रतिकूलानुकूलयोः' इति मेदिनी । आत्मन इति शेषः । का हानिस्स्यात् न काऽपि हानिः किंतु श्रेय एव भवेदिति भावः । त्वत्संबन्धप्रभाव ईदृश इति तात्पर्यम् । पक्षे निहाकाशब्दः तावकेन योगेन उपायेन युक्त्या वा प्रसव्या प्रतिकूला गतिः स्थितिः तस्या इति पञ्चमी । युक्त्या उपायेन वा प्रातिलोम्येन पठनादिति यावत् । काहानि काहानीत्यानुपूर्वीमत् स्यात् । अस्मिन् पक्षे स्यादित्यत्र ‘अनचि च' इति द्वित्वम् । अत्राप्यनुज्ञालंकारः पूर्ववदेव ॥

 यथावा--

 संसारमेव दित्ससि कंसारे यदि तथैव भूयान्नः । अपि जातु स एव स्यात्सारो ननु देवसंपदवियुक्तः ॥ १७२८ ॥