( नंटी भयं ना[१]टयति । )
सूत्रधारः -----
कौटल्य इति । चन्द्रस्य ग्रहणमिति श्रुतेः श्रवणात्सनाम्नः समाननाम कस्य मौर्येन्दोश्चन्द्रगुप्तस्य द्विषभियोगः द्विषता मलयकेतुनाभियोगो निरोधः। अभिषेणनमिति यावत् । इत्यवैति एवं जानातीत्यर्थः ॥ ७ ॥ अत्र सनाम्नो मौर्येन्दोः द्विषभियोग इत्यवैतीति रसावेशादुक्तान्यथाव्याख्यानमवस्यन्दितं नामामुखाङ्गम् । गूढ़ार्थपपर्यायमालारूपं प्रश्नोत्तरमालारूपं च द्विविधमप्युद्धायकं नामद्यमङ्गमाचे नान्दीपचे कृतमामुखाङ्गस्वेन संग्राह्यम् । नान्दीपद्यस्याप्यासुखम्राक्कालिकत्वेनामुखान्तर्भूतत्वस्याप्युचितत्वात् । यदि नान्दी आमुखबहिर्भूतैवेत्याग्रहस्तर्हि कूरग्रहः सकेतुरित्यचैत्र गूढ़ार्थपपर्यायरूपसुद्धात्थकं बोध्यम्। अत्र रक्षत्येनं तु बुधयोग इति “स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिण’ इति लक्षणात्कथोद्धतः । येन क्रधाझी प्रसभमहि नन्दवंश इति प्रस्तूयमानकार्यस्य गुणवर्णनया स्वत इति लक्षणसत्त्वात्प्रवृत्तकम् । स एष इति पद्भ्यां ‘एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगत’ इति लक्षणस्य च सर्वात्प्रयोगातिशयश्चेति त्रीण्यङ्गानि प्रस्तावनाया उक्तानि । इति वीथ्यर्द्धत्रयोदशभिः स्याद्वैश्च त्रिभिः सहिता षोडशाङ्गा प्रस्तावना निरूपिता । अत्र प्रथमाझे
’ वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । |
इत्युक्तलक्षणो विष्कम्भो न कृतः । प्रस्तावनयैव क्रोधाग्नौ प्रसभमहि नन्दवंश 'इति वृत्तकथांशस्य मौर्येन्दोः द्विषदभियोग इति वर्तिष्यमाणक-