पृष्ठम्:Mudrarakshasa.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
मुद्राराक्षसे

लोक्य सहर्षम् ।) कु[१]मारस्याज्ञानन्तरमेव सर्वे राजानः प्रतिनिवृत्ताः। प[२]श्यतु कुमारः ।

सो[३]त्सेधैः स्कन्धदेशैः खरतरकविकाकर्षणात्यर्थभुग्नै
 रश्वऻ कैश्विन्निरुध्दाः खमिव [४]खुरपुटैः खण्डयन्तः पुरस्तात् ।
केचि[५]न्मातङ्गमुख्यैर्विहतजवतया मूकघण्टैर्निवृता
 मर्यादां भूमिपाला जलधय इव ते देव नोल्लॢ़[६]घ्डयन्ति ॥ ७ ॥

 मलयकेतुः-आ[७]र्य, त्वमपि सपरिजनो निवर्त्तख । भागुरायण [८]एको मामनुगच्छतु ।

 कञ्चुकी [९]तथा । (इति सपरिजनो निष्क्रान्तः ।)

 मलयकेतुः सखे भागुरायण, वि [१०]ज्ञसोऽहमिहागच्छभ्दिर्भद्रभटप्रभृतिभिः ‘यथा न वयममात्यराक्षसद्वारेण कु[११]मारमाश्रयणीयमाश्च-


 सोत्सेधैरिति । खरतराणां तीक्ष्णलोहकण्टककीलितानां कविकानां खलीनानां आकर्षणादत्यर्थं भुग्नैर्नमितैरत एव सोत्सेधैर्मध्यभागोन्नतैः स्कन्धदेशैर्ग्रुीवाभागैरुपलक्षिता: अश्वाः कैश्चिन्निरुद्धाः । केचित् योधाः । सहसा जवनिरोधे सति मूकघण्टैरिति स्वभावोक्तिः । मातङ्गमुख्यैर्निवृत्ता़ः जवनान्मातङ्गान्सहसा संनिगृह्य निवृत्ता इत्यर्थः ॥ ७ ॥


  1. E. has कुमार एते before this; B. N. read कुमार कुमार एते भवदज्ञास मनन्तरमेव प्रतिनिवृत्ताः सर्व एव राजानः;G. E. read प्रतिनिवृत्ताः सर्वे राजानः.
  2. B. G. N. add हि after this.
  3. सोल्सेकैः E.;सौधोच्चैः P. For खरतरकविका B. N. read मुखरकविकया, G. E. H. खरकविककशा., R. M. read खरतरक लिका; °त्यन्त° for °त्यर्थ° R. M.
  4. खरपदैः G.
  5. काश्चि° P; र्विहित° for र्विहत° P. A. E.
  6. °यन्ते R.
  7. राजा. A. P; after आर्य B. E. N. add जाजले.
  8. एक एव B. N.
  9. यदाज्ञापयति कुमार इति. B. E. N. G; R. G. M. om खपरिजनोः
  10. विज्ञापितो B. E. N.किम् before विसो G.
  11. M. R. • om. न after यथा and insert it before कुर°; B. E. N. (C) om. आश्रयणीयम् after this.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१८५&oldid=324014" इत्यस्माद् प्रतिप्राप्तम्