पृष्ठम्:Mudrarakshasa.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
चतुर्थोऽङ्कः।

राक्षसः-( [१]आत्मगतम् । ) कस्मिन्प्रयोजने ममायं प्रहित इति प्रयो[२]जनानां बाहुल्यान्न खल्ववधारयामि । ( इति चिन्तां नादयति ।)

( ततः प्रविशति वेत्रपाणिद्विती[३]यः पुरुषः )

पुरुषः–ओसले[४] ओसलेह । आअदो । अवेह अवेह माणवा। किं ण् पे[५]क्खह । (क) ।

दूले [६]ञ्चासत्ती दंसणंवि दुल्लहमधण्णैः ।
[७]ल्लाणकुलहराणं देआणं विअ माणुस्सदेआणं ॥ ४ ॥ (ख)


( क ) अपसरत अपसरत । आगतः । अपेत अपेत मानवाः । किं न पश्यथ ।

( ख ) दूरे प्रत्यासत्तिर्दर्शनमपि दुर्लभमधन्यैः ।
  कल्याणकुलधराणां देवानामिव मनुष्यदेवानाम् ॥ ४ ॥


आत्मगतमिति । राक्षसकरभकसंवादावसरे भागुरायणेन मलयकेतुमतिसँधातुं तयोः प्रवेशावसरदानाय राक्षसचिन्तानाटनं कविनोपनिबद्धमिति द्रष्टव्यम् । इदमङ्कावतरणम् । अत्र राक्षसं प्रति करभकेण वक्ष्यमाणस्य मौर्यचाणक्योर्मिथो विरोधस्य पूर्वकार्यानुसंगतत्वात् । लक्षणं तु पूर्वमेवोक्तम्-

‘यत्र स्यादुत्तराङ्कार्थः' इत्यादिना ।

राज्ञो गमनत्वरासंभ्रमादपसरतापसरतेति पुनरुक्तिः ।

कल्याणकुलधराणामिति । कल्याणकुलं धरन्तीति कल्याणकुलधराः


  1. स्वग° B. N; B. E. N. have अथ after this; G. om. अयम्; B. N. add प्रणिधिः after it.
  2. G. E. read कार्याणामू; B. E. N. H. om. बाहल्यात् and read प्रभूतत्वात् before प्रयो; G. reads बहुत्वात् for बाहुल्यात्.
  3. अपरः for द्वितीयः B.E.N H
  4. ओसलध अज्जा ओसलध। अवेध माणहे अवेध। किम् &c.B. N., ओसलह औसलह अज्ज । अवेह माणहे अवेह । ती किम् &G.;ओसलध अज्जा ओसलध । अवेह माणहे अवेह E, R, and M, have असलेह and अवेह Once only; R. has अअम् before आअदो.
  5. पेक्खेह R. M.; पेक्खध B. N. G.
  6. °सञ्ची. R.; °णमवि for °णंवि B. E, N. H.; °णमपि G.; ण्णेहिं for ण्णैः B.E. N. G.; अधञ्ञेहिं H .
  7. घ. B.; हरणम् N; कल्लाणमणहलाएं H.; R.reads देव्वाणम् in both places; N. देवाणम्; B. and E. read देवाणं च
    भूमिदेवाणमु; G. has भूमिदेवाणम् omitting.दे-अ; देवाण च भूमिदेवार्ण H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१८४&oldid=323799" इत्यस्माद् प्रतिप्राप्तम्