पृष्ठम्:Mudrarakshasa.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
द्वितीयोऽङ्कः ।

 राक्षसः -श[१]कटदास, विश्रामय सिद्धार्थकम् ।

 शकटदासः -तथा[२]। (इति सिद्धार्थकेन सह निष्कान्तः |)

 राक्षसः-- सखे विराघगुप्त, वर्णय वृ[३]त्तशेषम् । अपि क्षमन्तेऽस्मदुपजापं चन्द्रगुप्तप्र[४]कृतयः ।

 विराधगुसः-- अमात्य, बाढं क्षमन्ते य[५]थाप्रकाशमनुगच्छन्त्येव ।

 राक्षसः--सखे, किं तत्र [६]प्रकाशम् ।

 विराधगुसः--अमात्य, इदं तत्र क्ष्र[७]काशम् । मलयकेतोरपक्रमणात्प्रभृति कुपितश्चन्द्रगुप्तश्चाणक्यस्योपरीति[८] चाणक्योऽप्यतिजितकाशितयासहमानश्चन्द्र[९]गुप्तं तैस्तैराज्ञाभङ्गंश्चन्द्रगुप्तस्य चेतःपीडामुपचिनोति । इ[१०] त्थमपि ममानुभवः ।


 अनुगच्छन्त्येवेति । चन्द्रगुप्तप्रकृतयः भद्रभटायः मलयकेतूपेक्षणात्कृतन्नश्चाणक्यबटुर्न विश्वसनीय इत्येवमस्मदुपजापं यथाप्रकाशमनुगच्छन्त्येव । अत्राप्यागन्तुमुद्यञ्जत एवेति भावः । वक्ष्यति चैतत्पञ्जमेऽङ्के प्राक्परिगृहीतोपजापैरित्यादि ।


  1. सखे before this B. N.; गच्छ after this E. Which has एनम् for सि--म्.
  2. यदाज्ञापयत्यमात्य इति B. E. N. G.
  3. वर्णयेदानीं कुसुमपुरवृत्तान्तशे° E. B. N. (r); G . has वृत्तान्त for वृत; P.has शेषवृत्तम् ; N. (s) agrees with B. omitting कुसुमपुर; कुसुमपुरनिवासिनो B. E. N. (r) after क्षमन्ते.
  4. प्रकृतिस्था अमात्यादयः for प्रकृ० E.
  5. ननु before this B. E. N. G; यथा° om.in N. (s) G; यथाप्रधानम् B. N. (r); यथाप्रकारम् R; for अनुग° E. has आग° and G. अवगम्यते.
  6. P. has तत् for तत्र;B. has कारणम् for प्र°; G also has it in margin scoring off प्र° in text.
  7. G.om. तन्न before this, and A. P. om. अमात्य at the beginning of the speech; B. has कारणम् for प्र; A. M. P. read यत् after this.
  8. R. has चाणक्योपरीति; N. (r) B. पीडितश्चन्द्रगुप्तेन चाणक्य इति; G. agrees reading कुपित for पीडित; N. (s) कुपितश्चन्द्रगुप्तश्चाणक्यस्य; E. agrees and adds इति at the end; B. and E. om. अति further on.
  9. G. om.स-प्तम् ;N. (s) B. om.चप्तम्; E. ditto adding अतिजितेन्द्रियतया before जित°; N. (r) om. सहमानः; and reads चन्द्रगुप्तस्य omitting चस्य further on; आकार for आज्ञा N. (r); N. (r) चित्तपीडामवचि°; B. N. (s) चेतसः पीडामुप°; E, om. all from चेतः to end.
  10. B. N. G. read अयम् for इत्थम्; P. has इत्ययम्.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१४४&oldid=321569" इत्यस्माद् प्रतिप्राप्तम्