सामग्री पर जाएँ

अथर्ववेदः/काण्डं ४/सूक्तम् ३४

विकिस्रोतः तः
← सूक्तं ४.३३ अथर्ववेदः - काण्डं ४
सूक्तं ४.३४
अथर्वा
सूक्तं ४.३५ →
दे. ब्रह्मौदनं । त्रिष्टुप्, - - - -

ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य ।
छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥१॥
अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम् ।
नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥२॥
विष्टारिणमोदनं ये पचन्ति नैनान् अवर्तिः सचते कदा चन ।
आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥३॥
विष्टारिणमोदनं ये पचन्ति नैनान् यमः परि मुष्णाति रेतः ।
रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥४॥
एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश ।
आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली ।
एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥५॥
घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना ।
एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥६॥
चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्नामुदकेन दध्ना ।
एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥७॥
इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् ।
स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥८॥

सायणभाष्यम्

‘ब्रह्मास्य शीर्षम्' इति सूक्तं ब्रह्मास्योदनसवे निरुप्तहविरभिमर्शनादिकर्मणि विनियुक्तम् । तत्रैवानेन सूक्तेन चतसृषु दिक्षु ह्रदकरणम् कुल्याकरणम् तासां रसैः पूरणम् ह्रदेषु आण्डीकादिमन्त्रोक्तद्रव्यविधानं च कुर्यात् । सूत्रितं हि-'ब्रह्मास्य' इत्योदने ह्रदान् प्रतिदिशं करोति' (कौसू ६६,६ ) इत्यादि।


ब्रह्मा॑स्य शी॒र्षं बृ॒हद॑स्य पृ॒ष्ठं वा॑मदे॒व्यमु॒दर॑मोद॒नस्य॑।

छन्दां॑सि प॒क्षौ मुख॑मस्य स॒त्यं वि॑ष्टा॒री जा॒तस्तप॑सोऽधि य॒ज्ञः ।।१।।

ब्रह्म । अस्य । शीर्षम् । बृहत् । अस्य । पृष्ठम् । वामऽदेव्यम् । उदरम् । ओदनस्य ।

छन्दांसि । पक्षौ । मुखम् । अस्य । सत्यम् । विष्टारी । जातः । तपसः । अधि । यज्ञः ॥१॥

अस्यौदनस्य दीयमानस्य शिरःप्रभृत्यवयवकल्पनया स्तुतिः क्रियते - ब्राह्मणजात्या सह प्रजापतिमुखाद् उत्पन्नत्वाद् ब्रह्मशब्देनात्र रथंतरं साम विवक्षितम् । अत एव तस्य ब्रह्मवर्चसरूपता समाम्नाता - 'रथंतरं साम भवति ब्रह्मवर्चसं वै रथंतरम्' ( तैब्रा २, ७,१,१ ) इति । तद् ब्रह्मशब्दवाच्यं रथंतरं साम अस्य ओदनस्य शीर्षम् शिरः । तथा बृहत् साम अस्य ओदनस्य पृष्ठम् पृष्ठभागः उपरिभागः । तथा वामदेव्यम् वामदेवेन दृष्टं साम उदरम् । 'वामदेवाड्ड्यड्ड्यौ ' (पा ४,२,९) इति ड्यप्रत्ययः। छन्दांसि गायत्र्यादीनि पक्षौ। तथा सत्यम् सत्याख्यं साम परं ब्रह्म वा अस्य ओदनस्य मुखम् । एवं विष्टारी विस्तीर्यमाणावयवः । विपूर्वात् स्तृणातेः कर्मणि णिनिप्रत्ययः। अथवा 'प्रथने वावशब्दे' (पा ३,३,३३) इति घञ् । ततो मत्वर्थीय इनिः । तादृशोयं यज्ञः सवयज्ञः तपसः तप्यमानाद् ब्रह्मणः अधि उपरि जातः उत्पन्नः। यज्ञदानादिलक्षणाद् अन्यस्मात् तपसो वा आधिक्येनोत्पन्न इत्यर्थः ।


अ॑न॒स्थाः पू॒ताः पव॑नेन शु॒द्धाः शुच॑यः॒ शुचि॒मपि॑ यन्ति लो॒कम्।

नैषां॑ शि॒श्नं प्र द॑हति जा॒तवे॑दाः स्व॒र्गे लो॒के ब॒हु स्त्रैण॑मेषाम् ।।२।।

अनस्थाः । पूताः । पवनेन । शुद्धाः । शुचयः । शुचिम् । अपि । यन्ति । लोकम् ।

न । एषाम् । शिश्नम् । प्र । दहति । जातऽवेदाः । स्वःऽगे । लोके । बहु । स्त्रैणम् । एषाम् ॥

अनस्थाः । न विद्यते अस्थ्युपलक्षितं षाट्कौशिकं शरीरम् एषाम् इति अनस्थाः। 'छन्दस्यपि दृश्यते' ( पा ७,१,७६ ) इति अस्थिशब्दस्य अनङादेशः । अमृतमयशरीरा इत्यर्थः । अत एव पवनेन पवनसाधनेन पूताः । यद्वा पवनेन अन्तरिक्षसंचारिणा वायुना पवित्रीकृताः शुद्धाः निर्मलाः शुचयः दीप्यमानाः एवंभूताः सवयज्ञस्य कर्तारः शुचिम् दीप्यमानं ज्योतिर्मयं लोकम् अपि यन्ति अपिगच्छन्ति देहावसाने प्राप्नुवन्ति । अपि च एषाम् स्वर्गे लोके अवस्थितानां शिश्नम् भोगसाधनम् इन्द्रियं जातवेदाः जातानां वेदिता अग्निः न प्र दहति न निर्वीर्यं करोति । प्रदाहप्रसक्तिम् आह - बहु स्त्रैणम् इति । तत्र हि सुकृतफलोपभोगस्थाने एषां सुकृतिनां बहु बहुलं स्त्रैणम् स्त्रीणां समूहो भोगार्थं विद्यते । एवं स्त्रीसमूहं भुञ्जानानामपि न निर्वीर्यत्वशङ्केत्यर्थः । स्त्रैणम् इति । 'स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्' (पा ४,१,८७ ) इति समूहेर्थे नञ् प्रत्ययः।


वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न।

आस्ते॑ य॒म उप॑ याति दे॒वान्त्सं ग॑न्ध॒र्वैर्म॑दते सो॒म्येभिः॑ ।।३।।

विष्टारिणम् । ओदनम् । ये । पचन्ति । न । एनान् । अवर्तिः । सचते । कदा । चन ।

आस्ते । यमे । उप । याति । देवान् । सम् । गन्धर्वैः । मदते । सोम्येभिः ॥ ३ ॥

विष्टारिणम् उदीरितरीत्या विस्तीर्यमाणावयवम् ओदनं ये यजमानाः पचन्ति । पक्त्वा ब्राह्मणेभ्यः प्रयच्छन्तीत्यर्थः । एनान् यजमानान् वर्तिः वृत्तिर्जीवनम् तदभावः अवर्तिः दारिद्र्यं कदाचन कदाचिदपि न सचते न समवैति । षच समवाये । बहुवद् उक्तम् एकवद् आह । यः पचति स च सवयज्ञानुष्ठाता देहविश्लेषानन्तरं यमे पितॄणाम् अधिपतौ पूजितः सन् आस्ते सुखेन वसति । तेन अनुज्ञातः सन् देवान् उप याति उपगच्छति । तथा सोम्येभिः सौम्यैः सोमार्हैः गन्धर्वैः विश्वावसुप्रभृतिभिः सोमपालैः सह सं मदते अमृतमयसोमपानेन माद्यति ।


वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॑न्य॒मः परि॑ मुष्णाति॒ रेतः॑।

र॒थी ह॑ भू॒त्वा र॑थ॒यान॑ ईयते प॒क्षी ह॑ भू॒त्वाति॒ दिवः॒ समे॑ति ।।४।।

विष्टारिणम् । ओदनम् । ये । पचन्ति । न । एनान् । यमः । परि । मुष्णाति । रेतः।

रथी । ह । भूत्वा । रथऽयाने । ईयते । पक्षी । ह । भूत्वा । अति । दिवः । सम् । एति ॥

नैनान् इत्यन्तं पूर्ववत् । यमः नियन्ता जीवनापहारी एनान् सवयज्ञानुष्ठातॄन् रेतः न परि मुष्णाति नापहरति । रेतोहीनान् न करोतीत्यर्थः । स च सवयज्ञानुष्ठाता रथयाने रथेन यातव्ये भूलोके यावज्जीवं रथी ह भूत्वा रथाधिरूढ एव ईयते संचरति । ईङ् गतौ। दिवादिः । अन्तरिक्षमार्गे च पक्षी पक्षवान् ह भूत्वा दिवः अन्तरिक्षप्रभृतीन् उपरितनान् लोकान् अतिक्रम्य समेति तत्तद्भोगस्थानेषु भोगैः संगच्छते।


ए॒ष य॒ज्ञानां॒ वित॑तो॒ वहि॑ष्ठो विष्टा॒रिणं॑ प॒क्त्वा दिव॒मा वि॑वेश।

आ॒ण्डीकं॒ कुमु॑दं॒ सं त॑नोति॒ बिसं॑ शा॒लूकं॒ शप॑को मुला॒ली।

ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ।।५।।

एषः । यज्ञानाम् । विऽततः । वहिष्ठः । विष्टारिणम् । पक्त्वा । दिवम् । आ । विवेश ।

आण्डीकम् । कुमुदम् । सम् । तनोति । बिसम् । शालूकम् । शफकः । मुलाली ।

एताः । त्वा । धाराः । उप । यन्तु । सर्वाः । स्वःऽगे । लोके । मधुऽमत् । पिन्व॑मानाः । उप । त्वा । तिष्ठन्तु । पुष्करिणीः । सम्ऽअन्ताः ॥ ५॥

एष विततः विस्तृतः सवयज्ञः यज्ञानां मध्ये वहिष्ठः वोढृतमः । विष्टारिणम् शिरःपृष्ठाद्यवयवकल्पनया उदीरितविस्तारोपेतम् ओदनं पक्त्वा यजमानस्तत्फलभूतं दिवम् स्वर्गम् आ विवेश प्राप्नोति । आण्डीकम् अण्डाकृतेः कन्दाद् उत्पन्नं कुमुदम् कैरवं दिश्येषु ह्रदेषु सं तनोति संयोजयति । तथा 'बिसम् पद्मकन्दम् । शालूकम् उत्पलकन्दम् । शफकः शफाकृतिः जलोत्पन्नः। मुलालीति मृणाली विवक्षिता । एतानि सर्वाणि परितो हृदेषु स्थापनीयानि । एवम् इदानीम् अनुष्ठितत्वात् एतत्फलभोगस्थाने स्वर्गे कुमुदोत्पलकमलोपेतानि मधुरोदकानि नित्यपूर्णानि क्रीडासरांसि एनं परितः सेवन्त इत्यर्थः । एतदेवोत्तरत्र विशदीक्रियते - उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः इति । दधिमधुघृतादिलक्षणस्य दिश्यासु कुल्यासु पूर्यमाणस्य रसस्य एताः सर्वा धाराः प्रवाहाः फलभूते स्वर्गे लोके मधुमत् मधुयुक्तं माधुर्यवद् वा पिन्वमानाः सिञ्चन्त्यः त्वा त्वाम् उप यन्तु उपगच्छन्तु । तथा समन्ताः पर्यन्तवर्तिन्यः पुष्करिणीः पुष्करिण्यः सरस्यः हे सवयज्ञानुष्ठातः त्वा त्वाम् उप तिष्ठन्तु उपस्थिताः संगता भवन्तु ।


घृ॒तह्र॑दा॒ मधु॑कूलाः॒ सुरो॑दकाः क्षी॒रेण॑ पू॒र्णा उ॑द॒केन॑ द॒ध्ना।

ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ।।६।।

घृतऽह्रदाः । मधुऽकूलाः। सुराऽउदकाः। क्षीरेण । पूर्णाः । उदकेन । दध्ना ।

एताः। ००॥

घृतह्रदाः घृतपूर्णह्रदयुक्ताः । मधुकूलाः मधुना माक्षिकेण युक्तानि कूलानि यासां ताः । सुरोदकाः सुरा मद्यमेव उदकं यासां ताः । तथा क्षीरेण उदकेन दध्ना च पूर्णाः। एतेषु घृतादिद्रव्येषु यद्यत् कामयसे तेन तेन पूर्णा बहुविधाः पुष्करिण्यः त्वां सेवन्ताम् इत्यर्थः । दध्नेति । 'अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः' (पा ७,१,७५) इति अनङादेशः उदात्तश्च । अल्लोपे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । *[ एतास्त्वा इत्यादि गतम् ]।


च॒तुरः॑ कु॒म्भांश्च॑तु॒र्धा द॑दामि क्षी॒रेण॑ पू॒र्णाँ उ॑द॒केन॑ द॒ध्ना।

ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ।।७।।

चतुरः। कुम्भान्। चतुःऽधा । ददामि । क्षीरेण । पूर्णान् । उदकेन । दध्ना।

एताः । ००॥

क्षीरादिद्रव्येण पूर्णान् चतुरः कुम्भान् चतुर्धा प्रागादिदिग्भेदेन चतुष्प्रकारं दधामि दिक्षु निदधामि । एताः क्षीरादिधाराः त्वाम् उप यन्तु इत्यादि योज्यम् ।


इ॒ममो॑द॒नं नि द॑धे ब्राह्म॒णेषु॑ विष्टा॒रिणं॑ लोक॒जितं॑ स्व॒र्गम्।

स मे॒ मा क्षे॑ष्ट स्व॒धया॒ पिन्व॑मानो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॑ मे अस्तु ।।८।।

इमम् । ओदनम् । नि । दधे । ब्राह्मणेषु । विष्टारिणम् । लोकऽजितम् । स्वःऽगम् ।

सः।मे। मा । क्षेष्ट । स्वधा । पिन्वमानः । विश्वऽरूपा । धेनुः। कामऽदुघा । मे। अस्तु ।

इमम् पक्वम् ओदनं ब्राह्मणेषु अग्र्यजन्मसु भोक्तृषु नि दधे निक्षिपामि । कीदृशम् । विष्टारिणम् प्रागुक्तविस्तारोपेतं लोकजितम् लोक्यत इति लोकः कर्मफलं तज्जयसाधनम् अत एव स्वर्ग्यम् स्वर्गशब्दाभिधेयदुःखासंभिन्ननिरतिशयसुखस्य साधनम् । स मे ओदनः तस्मिन् स्वर्ग लोके स्वधया क्षीरादिरसेन पिन्वमानः वर्धमानः मा क्षेष्ट क्षयं मा प्राप्नोतु । क्षि क्षये । माङि लुङ् । पिन्वमान इति । पिवि मिवि णिवि सेचने । इदित्वान्नुम् । अपि च ओदनः विश्वरूपा नानाविधफलप्रदरूपा धेनु[]ः सती मे मम कामदुघा अभिलषितफलस्य दोग्ध्री अस्तु भवतु । कामान् दुग्धे इति कामदुघा । 'दुहः कब्घश्च' (पा ३,२,७०) इति कब्घत्वे ।

इति चतुर्थ सूक्तम् ।


टिप्पणी

  1. धेनुरुपरि टिप्पणी