पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


तदप्येष श्लोको भवति ।

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह--आनन्द-वल्ल्या

तृतीयोऽनुवाकः ॥ ३ ॥


 आदेशोऽत्र ब्राह्मणम् , आदेष्टव्यविशेषानादिशतीति । अथर्वणाऽङ्गिरसा च दृष्टा मन्त्राः, ब्राह्मणं च शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात्पुच्छं प्रतिष्ठा ।   तदप्येष श्लोको भवति मन्दोमयात्मप्रकाशकः पूर्ववत् ।

श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः


कृतौ तैत्तिरीयोपनिषदि ब्रह्म--आनन्द-वल्लीभाष्ये तृतीयोऽनुवाकः ॥ ३ ॥


तस्मादिति। मन्त्राणां मनोवृत्तित्वेनाऽऽवृत्तिर्घटत इत्युक्तम्, परम्परया चिदात्मत्वेन नित्य त्वमथि घटत इत्याह-एवं चेति--चैतन्यरूपत्वे सति । अन्यथेति-स्वप्रकाशसंचिदात्म त्वानङ्गीकारे रूपादिवद्विषयत्वादनित्यत्वमपि प्रसज्येत । कालिदासादिवाक्यानामप्येतेन न्यायेन नित्यत्वापातायुक्स्याभासमेतत् । अस्त्वनित्यत्वमिति न वाच्यमित्याह-नैतद्युक्त मिति । “ वाचो विरूपनिरयया ” इति श्रुत्या नित्यत्वस्याऽवेदितत्वाव, वेदानित्यत्वं युक्तं न भवतंत्यर्थः । वेदानां जडत्वे स्वप्रकाशेनाऽऽत्मनैकत्वं न संभवति, जडाजडयोर्विरोधाव, . अतो मनोवृत्तिव्यापकचिदात्मत्वं सुचितमित्यर्थः। साक्षितया मनसि भव ‘ मानसीनः ‘अक्षरे परमे’ व्योमकल्पे ब्रह्मणि ‘ऋचःविधिनिषेधरूपा ‘निषेदु-तादात्म्येन व्यवस्थिताः- इतेि च मन्त्रवर्ण एकत्वं दर्शयतीत्यर्थः ।

‘आदेष्टव्यविशेषान्कर्तव्यविशेषान्-इदमेवं कर्तव्यम्-इत्युपदिशतीत्यर्थः।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दशानविरचिते तैत्तिरीयोपनिष
च्छांकरभाष्यटिप्पणे ब्रह्म-आनन्द-वलयां तृतीयोऽनुवाकः ॥ ३ ॥


ग्निसमिन्धने’ (अम. के. ब्र. व. श्लो. २२. ) इति । सवनीयस्य पशोः प्रोक्षणादूर्वमध्वर्युणा प्रेषितो होता सामिधेनीरनुयात् । तासामेकादशानां मध्ये ‘त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ’ इति वचनानुसारेणावृत्तौ सत्यां पञ्चदश संपद्यन्ते । सप्तदशसंख्यायाः पूरणीयत्वे तु ‘पृथुपाजा अमर्यः” (ऋ.सं. मं. ३ सु. २७ क्र. ५) इत्याद्यपद्यस्य तासु प्रक्षेपोऽपि विधीयते । एवमेकविंशतित्वे संपादनीये षण्णामप्युचां प्रक्षेपो विहितः । ताः प्रक्षेपणीयचं एव धाय्या ठच्यन्ते (ऐ. ब्रा. ३. २.७.) तुल्य-तै. सं. २. ५. ७; जै. सू. ९. १. ३३. (१) है. सं. २. ६. ११.२.; क्र. सं. सं. ८. ७५. ६.; मै. सं. ४. ११. ६.