पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


मन्त्राणां मनोवृतित्वम्  तस्य यजुरेव शिरः। यजुरित्यनियताक्षरपादावसाना मन्त्रविशेषः, तज्जातीयवचनो 'यजुः',शब्दः,तस्य शिरस्त्वं प्राधान्यात् । प्राधान्यं च यागादौ संनिपत्योपकारात्, यजुषा हि हविर्दीयते स्वाहाकारादिना । वाचनिक्री वा शिरआदिकल्पना सर्वत्र । मनसो हि स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषया तत्संकल्पात्मिका तद्भाविता वृत्तिः श्रोत्र करणद्वारा यजुः सम्केतविशिष्टा यजुरियुच्यते । एवमृक्,एवं साम च । एवं च


 यजुशब्देन बाधो यजुर्वेद उच्यते, तस्य कथमान्तरं मनोमयं प्रति शिरस्त्वम् ?-इत्य अङथाऽऽ–मनसो हीति । अपियज्ञशब्दो वा शब्दराशौ स्दः, तथाऽपि युनेस्नतिश ॐीयत्वाव, तत्प्रामाण्याद्विशिष्टमनोतिर्यजुःसंकेतविषयभूता ‘यजुर्वेदमधीमहे’ एतत्क्रम


 (१) चत्वारि वाक्परिमिता पदानि । तानि विडुब्रह्मणा ये मनीषिणः। गुह्य त्रीणि निहिता नेय न्ति । तुरीयं वाचो मनुष्या वदन्ति ” ॥ (तै. ब्रा. २. ८. ८; ऋ. सं. में. १. स्. १६४. झ. ४५) इति वाचः पादचक्षुष्ट्यमाख्यातम् । परा, पश्यन्ती, मध्यमा, वैखरी -इत्येवं चतुरवस्थाया वाचस्तुरीयः पादो वैखर्यात्मक; स एव शरीरिणां प्रेषणाध्येषणादिव्यवहारर्तु -परश्रोत्रग्राह्यात्मकं वैखयामकमेवं शब्दं मनुष्यादयोऽभिवदन्ति । स च वैखर्यात्मक शब्दः स्वत एवैकरूपोऽपि कठताल्वाद्यभिव्यक्तिस्थानभेदा स्वरव्यञ्जनादिभेदेन नानात्वं भजेते । ‘शब्दे प्रयत्ननिष्पत्तेः” (जै. सू. १. ३. २५) इत्यत्र शबरस्वामि- भिरुक्तम्-‘महता प्रयत्नेन शब्दमुच्चरन्ति,--वायुर्नाभेरुत्थितः, उरसि विस्तीर्णः, कण्ठे विवर्तितः, मृधन माहत्य परावृत्तः, वने विचरन् विविधान् शब्दानभिव्यनक्ति । तथाच शिक्षायाम्-आमा बुद्धथाः समेत्यार्थान्मनो युङ्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । सोदीर्णा मृध्यैभिहतो वक्त्र मापद्य मारुतः । वर्णाञ्जनयते’ इत्यादि । आत्मा-अन्तःकरणं संस्काररूपेण स्वगतानर्थान् बुद्धया स्ववृत्त्या समेत्य एकबुद्धिविषयान् कृत्वा तद्धनेच्छया युक्तं मनः करोति । तन्मनः कायाग्निं जाठरश्मिभिहन्ति । स ऽक्षिर्मास्तं प्रेरयति । स मारुत ऊर्वे प्रेरितो मृध्यैभिहतः परावृत्त्य वनं ताल्वादिस्थानं प्राप्य वर्णानभिव्यनक्ति। एवं च शब्दप्रयोगेच्छोत्पन्नयनाभिहताभिप्रेरितनाभिप्रदेशगतवायुर्वेगान्मूर्धानं गत्वा प्रतिनिवृत्तो वनं प्राप्य यविशेषसहायः ताल्वादित्तत्स्थानेषु जिह्मादिस्पर्शपूर्वकसभिहतो वर्णविशेषानभिव्यनक्तीति त एते आभ्य न्तरप्रयत्नाः । ततो यत्नविशेषेर्गलविवरविकासादीन् करोति । त एते बाह्यप्रयत्नाः। एतैश्च प्रयत्नैवैर्णा यथावद् भिव्यज्यन्ते । ॐ कुतूहलवृत्तौ । ननु शब्दामकानां यजुरादीनां कथं मनोमयावयवत्वम् ?-इत्याशङ्कां परिह रति–मनस इत्यादिना । यद्यपि यजुरादिर्वेदः “शब्दराशिरूप एव प्रसिद्ध, न मानसशानरूपःतथापि यजुरादेः स्वरूपघटिका प्रमाणत्वघटिका वा वृत्तिर्मनस्येव तिष्ठति; तेन यजुरादिशब्दानां वृत्तिपरत्वङ्गका- रेण मनोमयस्यावयवत्वमुपपन्नमित्यर्थः । अयं भावः--न केवला वर्णा वेद; किंतुस्थानप्रयत्नस्वरायखसंथान- विशिष्टाः। तथाच यजुरादिस्वरूपं मनोवृत्तिघटितम्; एवं प्रमाजनकत्वमपि न स्वरूपेणैव वेदवाक्यानांकिंतु मानसवृत्तिरूपेणैवेति । अनेन मनोमयेन प्रमाणास्मकेनाविषयोप्यारमाऽऽवरणभङ्गद्वारा प्रकाश्यते । यद्यपि यजु- राद्या वाचःतस्वरूपघटकं मनश्च-एतेषां प्रमाणभूतानां स्वान्तर्गतमानन्दरूपमात्मानं प्रवेदयितुं-प्रकाशयितुं. न शक्,ि तथाप्यधिकारी मनोमयस्य स्वरूपान्तर्गतमानन्दमन्तर्मुखेनावरणभञ्जकेन जानन्सन् संसारान्न बिभेति। (२ ) जै. स् ४.१.३