पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ प्रथमोऽनुवाकः]
५३
ब्रह्मलक्ष्णम्


 शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्ते:।सत्याद्यथैरर्थवत्त्वे तु तद्विपरीतधर्मवद्भ्यो विशेष्येभ्यो ब्रह्मणो विशेष्यस्व नियन्तृत्वमुपपद्यते।ब्रह्मशब्दोऽपि स्वार्थेनार्थवानेव । तत्रानन्तशब्दोऽन्तवत्त्वप्रतिषेधद्वारेण विशेषणम् । सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः।

आत्मैक्याद्ब्रह्मणोऽनन्तत्वम्  'तस्माद्वा एतस्मादात्मनः' इति ब्रह्मण्येवाऽऽत्मशब्दप्रयोगाद्वेदितुरात्मैव ब्रह्म–"एतमानन्दमयमात्मानमुपसंक्रामति" इति चात्मतां दर्शयति; तत्प्रवेशाच्च– "तत्सृष्ट्वा तदेवानुप्रविश्त्" इति च,तस्यैव जीवरूपेण शरीरप्रवेशं दर्शयति । अतो वेदितुः स्वरूपं ब्रह्म ।

नित्यानन्तस्वतन्त्रं ब्रह्म  एवं तर्ह्यात्मत्वाज्ज्ञानकर्तृत्वम् - आत्मा ज्ञातेति हि प्रसिद्धम्, "सोऽकामयत" इति च कामिनो ज्ञानकर्तृत्वप्रसिद्धिः; अतो ज्ञानकर्तृत्वाज्ज्ञप्तिर्ब्रह्मेत्ययुक्तम्, अनित्यत्वप्रसङ्गाच्च; यदि नाम ज्ञप्तिर्ज्ञानमिति भावरूपता ब्रह्मणः,तथाऽप्यनित्यत्वं प्रसज्येत, पारतन्त्र्यं च, धात्वर्थानां कारकापेक्षत्वात्, ज्ञानं च धात्वर्थः; अतोऽस्यानित्यत्वं परतन्त्रता च । न, स्वरूपाव्यतिरेकेण कार्यत्वोपचारात्--आत्मनः स्वरूपं ज्ञप्तिर्न ततो व्यतिरिच्यते, अतो नित्यैव; तथाऽपि बुद्धेरुपाधिलक्षणायाश्चक्षुरादिद्वारैर्विषयाकारपरिणामिन्या ये शब्दाद्याकारावभासाः त आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एवाऽऽत्मविज्ञानेन व्याप्ता उत्पद्यन्ते । तस्मादात्मविज्ञानावभासाश्च ते, विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते ।


 किंच विशेषणस्य व्यावर्तकत्वं सति यावत्थं घटते, अतो विशेषणत्वानुपपयैव सदर्थत्वं वाच्यमित्याह--शून्यार्थत्वे हीति । यचोतं ब्रह्मशब्दोऽप्रसिद्धार्थ इति तत्राऽइ-ब्रह्म शब्दोऽपीति । “ बृह बृहि ठीौ ” इति धातोर्जज्ञेति शब्दो निष्पन्नो वृदौ महत्वे वर्तते । तच महत्वं देशतः कालतो वस्तुतश्चानवच्छिन्नत्वं संकोचकमानान्तराभावानिरतिशयमहत्वसं पन्ने धर्मिणि पर्यवस्यति । ततो वन्ध्यासुतादिशब्दविलक्षणो ब्रह्मशब्द इत्यर्थः । सत्यादिषु त्रिषु विशेषणेष्ववान्तरभेदमाह--तत्रानन्तेति ।

 अनन्तमित्यनेन चाऽऽत्मैक्यं ब्रह्मण उक्तमित्यभिप्रेत्यैक्ये शात्रतापयं दर्शयति-तस्मा ‘द्ध इत्यादिना । ब्रह्मण आत्मैक्यं चेद्विवक्षितं, तर्हि ज्ञानशब्दस्य भावसाधनत्वव्याख्यानं हीयेतेत्याह--एवं तर्हति। इतश्च भावव्युत्पत्तिरसंगतेत्याह-अनित्यत्वप्रसङ्गाच्चेति


(१) है. उ. २. ८. (२) °आरमतां दर्शयति' । इति केषुचिदादर्शपुस्तकेषु नोपलभ्यते । (३ ) है. उ. २. ६. (४) चू. ७. १. २. ४; है. ४. २. ६. (५) पृ. ५१