पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


( निर्गुणविद्याविघ्नशान्ति:)

सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विना

वधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः।

सत्यमवादिषं पञ्च च ॥

शं नः शीक्षाम् सह नौ यश्छन्दसां भूः स यः पृथिव्योमित्यृतं चाहं वेदमनू

च्य शं नो द्वादश।। शं नो मह इत्यदित्यो नो इतराणि त्रयोविशंतिः॥

॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वादशोऽनुवाकः ॥ १२ ॥

शिक्षावल्ली समाप्ता*


पठ्यते-'शं नो मित्रः’ इति, 'सह नाववतु' इति च । 'शं नो मित्रः' इत्यादि पूर्ववत्स्पष्टम् । सह नाववतु नौ शिष्याचार्यौ सह एव अवतु रक्षतु । सह नौ भुनक्तु भोजयतु । सह वीर्यं विद्यादिनिमित्तं सामर्थ्यम् करवावहै निर्वर्तयावहै । तेजस्विनौ तेजस्विनोरावयोरधीतं स्वधीतं अस्तु-अर्थज्ञानयोग्यमस्त्वित्यर्थः । यद्वा नावावयोरधीतं तेजस्व्योजवदस्त्वित्यर्थः। मा विद्विषावहै विद्याग्रहणनिमित्तं शिष्यस्य, आचार्यस्य वा, प्रमादकृतादन्यायाद्विद्वेषः प्राप्तः, तच्छमनायेयमाशीः 'मा विद्विषावहै' इति—मैवेतरेतरं विद्वेषमाप द्यावहै । 'शान्तिः' –इति त्रिर्वचनमुक्तार्थम् । वक्ष्यमाणविद्याविघ्नप्रशमनार्थेयं शान्तिः--अविघ्नेन स्वात्मविद्याप्राप्तिराशास्यते, तन्मूलं हि परं श्रेय इति॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः

कृतौ तैत्तिरीयोपनिषच्छिक्षावल्लीभाष्ये द्वादशोऽनुवाकः ॥ १२ ॥


रण्येन मया पूर्वं प्रार्थितत्वादित्यर्थः । असाधारण्येन परवियोपसर्गाशान्त्यर्थमाह-सह ना- बिति। नावावयोस्तेजस्विनोरधीतं तेजस्व्यस्त्विति योजना ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते तैत्तिरीयोप निषच्छांकरभाष्यटिप्पणे शिक्षावल्ल्यां द्वादशोऽनुवाकः ॥ १२॥


(१) अत्र शिक्षावलयवसान इयं शान्तिद्वययोजना वार्तिकतर्हकाभिप्रायेण कृता । एवमेव भाष्यपाठ संग च्छते, नान्यथा। (२) इदं शमित्यारभ्य द्वादशेत्यन्तं वल्गतानुवाकानामाद्यप्रतीकिप्रदर्शनेनानुवाकगणनम्। (३ इदमनुवाकगतवाक्यशतकाद्यप्रतींकप्रदर्शनेन । तुल्य-पृ७ टिप्पण्यौ १. ) वाक्यगणनम् . २(४) शनसं. योग्यस्त्वित्यर्थः -इति पाठान्तरम् । यद्वा नावावयोरधीतं तेजस्व्योजोवदस्त्वित्यर्थःइति पाठः केषुचित्पुस्तकेषु नोपलभ्यते।(५‘तेजस्विनौः '-योजना’ पदद्वयरहितोऽपि पाठो दृश्यते कुत्रचित् ॥२-दाभिव्ये क्तिरूपाऽवि०--इति पाठः।। * तैत्तिरीयारण्यकक्रमेण सप्तमप्रपाठकस्य समाप्तिरत्र।